SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४२८ कातन्त्रव्याकरणम् अथाख्याताध्याये तृतीयेऽष्टमो धुडादिपादः ८२१. पदान्ते धुटां प्रथमः [३। ८। १] [सूत्रार्थ पदान्त में वर्तमान धुट्संज्ञक वर्गों के स्थान में वर्गीय प्रथमवर्णादेश होता है।। ८२१। [दु० वृ०] पदस्यान्ते वर्तमानानां धुटां वर्णानामन्तरतमः प्रथमो भवति। त्वन्नाथः, षण्मुखानि, ज्ञानभुट्टीकनम्,त्वच्छ्रुतम् , ककुब्भासः। वर्गप्रथमलक्षणं स्यात् । अलेट , अलेड् । आसीत्, आसीद् । "वा विरामे" (२। ३। ६२) इत्यस्य बाधकत्वात् प्रथमतृतीयौ। पदग्रहणमप्रकृतस्यापि लिङ्गस्य परिग्रहार्थम्, तेन च धातोरन्ते न स्यात् । वदति, एधते। धटामिति किम् ? अहन्, अपचम् ।। ८२१। [दु० टी०] पदान्ते०। 'तव नाथः त्वन्नाथः, षण्णां मुखानि षण्मुखानि' इति प्रथमत्वे "पञ्चमे पञ्चमांस्तृतीयान वा" (१।४। २) आपद्यते। ज्ञानबुधष्टीकनं ज्ञानभुट्टीकन मिति। "पररूपं तकारो लचटवर्गेषु" (१। ४। ५)। तव श्रुतं त्वच्छ्तम् इति "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा" (१।४। ३)। ककुभां हासः ककुब्भास इति। "तेभ्य एव हकारः पूर्वचतुर्थं न वा" (१। ४। ४) इत्याह- वर्गेत्यादि। लिहेरस्तेश्च शस्तन्यां दिः। 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधकः' (व्या० परि०४२) इति विराममात्रे पक्षे तृतीयोऽपीत्याह-अलेडित्यादि। आसीज्ज्ञानमलेडदुग्धमित्यादौ वचनात् तृतीय एवावतिष्ठते। पदेत्यादि। नन्वन्तग्रहणादेव धातोरन्ते न भविष्यति, अन्यथा धुटा धातुर्विशिष्यते, विशेषणेन च तदन्तविधि: स्यात् , तर्हि प्रकरणादाख्यातिकपदस्यैव प्राप्नोतीति भावः। धुटा च यदि पदं विशिष्यते अन्तग्रहणेन विना तदेव दूषणम् । धुटामिति व्यक्तिरिहाशेषपरिग्राहिणी न्याय्या निर्दिश्यते।। ८२१। [वि० प०] पदान्ते०। प्रथमे सति “पञ्चमे पञ्चमांस्तृतीयान्नवा' (१। ४। २) इत्यादिकमपि प्रवर्तते इत्याह - वर्गप्रथमेत्यादि । प्रथमे प्राप्ते “वा विरामे' (२। ३। ६२) इति वचनमुच्यमानस्य प्रथमस्य बाधकमित्याह-अलेडित्यादि । उभयत्रापि · हस्तन्यां दिः। अत एवानेन सर्वत्र समासे प्रथमत्वं दर्शितम् । अथ "अन्ते धुटां प्रथमः" इत्यास्ताम् , एवमपि पदस्यान्ते भविष्यति। न च धातोरन्तग्रहणात् , अन्यथा येन विधिस्तदन्तस्येति सिद्धमित्याह - पदेत्यादि । अन्यथा प्रकरणत्वाद् आख्यातिकपदस्यैव स्यादित्यर्थः। चकार एवार्थे, तेनैवान्तग्रहणेनेत्यर्थः।।८२१। [बि० टी०] पदान्ते०। "वा विरामे' (२। ३।६२) इति बाधकत्वादिति वृत्तिः। ननु परत्वादनेन पदान्ते भवतु लिङ्गान्ते विरामे पुनर्वाक्, वागित्यादौ वा विरामे स्यात्., नैवम् । पदसंज्ञाविषये
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy