SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४१६ कातन्त्रव्याकरणम् शिश्रयिषति, शिश्रीषति। यु-यियविषति, युयूषति । ऊर्गुञ् - प्रोणुनविषति, प्रोणुनूषति। भर्-बिभरिषति, बुभूषति। ज्ञप-जिज्ञपयिषति, जीप्सति। सनु-सिसनिषति, सिषासति। तनुतितनिषति, तितांसति। पत्ल-पिपतिषति, पित्सति। दरिद्रा-दिदरिद्रिषति, दिदरिद्रासति। भ्रस्जभृयूणामप्राप्ते विभाषा।।८१५। [दु० टी०] इव०। सनीत्यनुवर्तते। भरेत्यना निर्देशाद् 'भृञ् भरणे' (१।५९७) इति भौवादिकस्य ग्रहणम् । सिस्वरिषति, सुस्वूपति। "स्वरतिसूति०" (४।६।८३) इत्यादिना स्वरतेर्विभाषाऽस्त्येव। भ्रस्जभृयूणामिति यौतेरुवर्णान्तात् प्रतिषेधे सति अप्राप्ते विभाषा।।८१५। [वि० प०] इवन्त०। दुवूषतीति। "च्छ्वोः शूटौ पञ्चमे च" (४।१।५६) इति वकारस्योट। ईतिीति। 'ऋधिज्ञप्योरीरितौ वक्तव्यौ' इति वचनाद् ईर् अभ्यासलोपश्चा बिभृक्षतीति। भ्रस्जे जादेशो दर्शित एव। धीप्सतीति। "दन्भेरिच्च" (३।३।४१) इति ईत्वम् । “सनि चानिटि" (३।५।९) इत्यत्र चकारादनामिनोऽपि क्वचिदिति वचनादनुषङ्गलोपः। यियविषतीति। "उवर्णस्य जान्तस्थ०" (३।३।२७) इत्यादिना अभ्यास-उकारस्येकार:। बिभरिषतीति। सूत्रे ‘भर' इत्यना निर्देशात् 'भृ भरणे' (१।५९७) इति भौवादिकस्य ग्रहणम् । डु भृञस्तु नित्यम् - बुभूषेतीति। जीप्सतीति। ऋधिना तुल्यं लक्षणम् । सिषासतीति। "धुटि खनिसनिजनाम्" (४।१।७१) इत्यत्र "सनि च" (३।५।९) इति वचनादात्त्वम् । तितांसतीति। "हनिङ्गमोरुपधायाः" (३।८।१३) इत्यत्र 'तितांसति, तितनिषति इति वा वक्तव्यम्' इति पक्षे दीर्घत्वम् । पित्सतीति। "सनि मिमी०" (३।३।३९) इत्यादिना स्वरस्येस् अभ्यासलोपश्च। "स्कोः संयोगाद्योरन्ते च" (३।६।५४) इति सकारलोपः। भ्रस्जेरित्यादि। अन्येषां प्राप्त इत्यर्थादुक्तम् ।।८१५। [बि० टी०] इवन्तः। नन्वत्र वाग्रहणं किमर्थम्, भ्रस्भृयूणां ग्रहणेनैव विकल्पोपलब्धिः, "सिद्धे सत्यारम्भः' (का० परि० ५९) इति न्यायात् । न च वक्तव्यं नियमार्थम् । उकारान्तानां मध्ये युधातोरेव, उवर्णान्ताच्चेत्यत्र दोषाद् व्यावृत्तिर्नास्तीत्यतो विकल्प: स्यात् । ज्ञापकं तु न भवत्येव? सत्यम् । परयोगेणात्र वा गम्यते इति। "उवर्णान्ताच्च" (३।७।३२) इत्यादौ विकल्पं बोधयिष्यति, तन्निरासार्थ वाग्रहणम् । अथवा उत्तरार्थं क्रियमाणं वाग्रहणम्, इह त्वेतदर्थम् ।।८१५। [समीक्षा 'दिदेविषति-दुयूषति, दिदम्भिषति-धिप्सति' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में वैकल्पिक इडागम किया गया है। पाणिनि का सूत्र है - “सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम्' (अ० ७।२।४९)। पाठान्तर में 'तन्, पत्, दरिद्रा' धातुओं का भी पाठ देखा जाता है। ‘स्वृ' धातु से वैकल्पिक इडागम के सम्बन्ध
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy