SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः [बि० टी०] सपरः। अथान्तरङ्गत्वाद् वकारस्य प्राक् सम्प्रसारणे "न सम्प्रसारणे" (३।४। १९) इति प्रतिषेधादयमदोषः, तदप्ययुक्तम् अनन्तरत्वादिति। अनन्तरत्वमगुणप्रत्ययस्येत्यर्थः। अन्तस्थाग्रहणमभ्यासविकार इत्यादि वृत्तिः। ननु “अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्" (३। ३। ९) इत्यत्रानादिर्लोपनीय इत्युक्तम्, अन्तस्थाग्रहणबलाद् वकारस्य लोपो न स्याद् इति तु वास्तविकोऽर्थः । तत् कथमुक्तं विकारबाधनार्थ विकारस्योपमर्दनजातरूपत्वाच्चेत्, नैवम्। अयमपि विकारः। तथा च 'लोप: सर्वापकर्षणाद्' इत्युक्तम्। अत्र तु समस्तमभ्यासमपकृष्य लोपो न क्रियते किन्तु अवयवः, अतो विकार: । नैवम्, प्रकृतेरन्तापहारी लोप: प्रत्ययस्य सर्वापहारी लोप: इत्यादावेकदेशेऽपि लोपदर्शनात् ? सत्यम्, विकारशब्देन विकृतिरुच्यते, विकृतिर्विकारः, न तूपमर्दनाज्जातस्य परिग्रहः। ननु तथापि अभ्यासस्य विकृतिर्दृश्यते, व्यथादिधातौ थकारधकारयोर्लप्तत्वात् ? सत्यम्, अन्तस्थाग्रहणेन ज्ञापितत्वाद् अन्तस्थाया विकृतिर्बाध्यते अभ्यासग्रहणस्याभ्यासावयवपरत्वादिति। अथ "न वाश्व्योरगुणे च" (३। ४। ६) इत्यत्राभ्यासे श्वयते: प्रतिषेधादेवाभ्यासविकारबाधनम् ? सत्यम्। ‘सविकल्पकानि ज्ञापकानि' इति टीकाकृत्। तथानेनापि ज्ञाप्यते इत्याह- बाधनार्थमिति। ननु सहशब्दो व्यर्थकस्तुल्यप्रतियोगी विद्यमानवचनश्च ततः कस्यह ग्रहणम् ? सत्यम्, तुल्यप्रतियोगी गृह्यते "व्यथेश्च" (३। ४। ५) इति ज्ञापकात्। अन्यथा 'विव्यथे' इत्यादौ अभ्यासयकारस्य इकारेऽकारस्य सत्त्वात् पुनर्यत्त्वं भविष्यति, किं सम्प्रसारणविधानेनेति। परेणैव सस्वरत्वं लोकत: सिद्धमिति-ननु सहग्रहणेन किम् , परस्मिन् स्वरो यस्याः सा परस्वरा तादृश्या अन्तस्थायाः सम्प्रसारणमित्युक्ते देश्यमेव नास्ति, किं सहग्रहणेन ? सत्यम्, यद्यपि बहुव्रीहिणा समुदाय उच्यते, तथापि अतद्गुणशङ्कया परसत्त्वे स्वरेऽपि सम्प्रसारणप्रसङ्गः। सहग्रहणं तद्गुणसंविज्ञानो बव्रीहिज्ञापनार्थम्। तर्हि "व्यथेश्च" (३ । ४।५) इत्यादो वैयर्थ्यभयादव तद्गुणसंविज्ञाना बहुव्रीहिर्भविष्यति ? सत्यम्, सहग्रहणं स्वरस्यापि कार्यित्वप्रतिपादनार्थमिति टीकाकृत। एतेनोभयस्थानित्वादेकतरव्यपदेशः, ततश्चास्यापि स्वरविधित्वमुपपन्नम्। किं च सहग्रहणं सहस्य सभावज्ञापनार्थम् । तेन सहस्य सो विभाषयेति न वाच्यम् ।। ५४० । [समीक्षा] 'सम्प्रसारण' शब्द का अर्थ है- फैलाना, विस्तार करना। 'य्-त्-र्-ल' वर्गों के स्थान में क्रमश: जो 'इ-उ-ऋ-ल' आदेश होते हैं, उनमें इस अर्थ की सङ्गति सन्निहित है, क्योंकि यकारादि कोई भी व्यञ्जन अर्धमात्रिक ही होता है, जब कि इकारादि ह्रस्व स्वर एकमात्रिक होते हैं। इस प्रकार अर्धमात्रिक वर्णो के स्थान में एकमात्रिक वर्णों के आदेश से विस्तार सिद्ध है। ___ पाणिनि का संज्ञासूत्र है--- "इग्यण: सम्प्रसारणम्'' (अ० १ । १ । ४५)। 'यण' प्रत्याहार में 'य–व्-र-ल' तथा 'इक्' प्रत्याहार में 'इ-उ-ऋ-ल' वर्णों का समावेश माना जाता है। कातन्त्रकार ने सम्प्रसारण को साक्षात् संज्ञा न कहकर उसका
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy