SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् सम्प्रसारणमिति न वक्तव्यमेव। अनुषेर्बहुस्वरादनिनोगुर्वाडोर्यादिश्यते स्त्रियाम्। कारीषस्येव गन्धोऽस्य इति कारीषगन्धः, तत इण, कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपत्र:। कारीषगन्ध्यायाः पतिः कारीषगन्धीपतिः। एवं परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः। यङन्तस्यापीति पुत्रपत्योरप्राधान्ये तु न दृश्यते- 'कारीषगन्ध्यायाः पुत्रकुलम्, कारीषगन्ध्यायाः पतिकुलम्'। एवं स्त्रीप्रत्ययस्याप्राधान्येऽपि। न दृश्यते कारीषगन्ध्यामतिक्रान्त: अतिकारीषगन्ध्यः, तस्य पुत्र: अधिकारीषगन्ध्यपुत्रः, अतिकारीषगन्ध्यपतिः। तथा बन्धो बहुव्रीहो– कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। एवं परमकारीषगन्धीबन्धुः । स्त्रीत्वोपसर्जने न दृश्यते- अतिकारीषगन्ध्यबन्धुः। मातामातृकमातृषु विभाषा-कारीषगन्ध्या माता अस्येति हे कारीषगन्धीमात। मातुरन् पुत्रस्तुतौ संबुद्धौ– कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता। एवं 'श्वफल्कस्यापत्यं स्त्री' इत्यणश्वाफल्कीपुत्रः, श्वाफल्कीपतिरिति। एवंभूता एव समासशब्दा इति यडादेशाऽपि इह नादृत एव।। ५४०। [वि० प०] सपरस्वरायाः। अथ किमर्थ परग्रहणं सस्वरायाः' इत्यास्ताम्। तदयुक्तम्- पूर्वेणापि सहभावोऽस्तीति वयेर्यकारस्य वकाराकारेण पूर्वेण सह सम्प्रसारणं स्यात् । तथान्तरङ्गत्वाद् वकारस्य 'प्राक् सम्प्रसारणे न सम्प्रसारणम्' इति प्रतिषेधादयमदोषः। तदप्ययुक्तम् । अनन्तरत्वात् प्राग् यकारस्यैव सम्प्रसारणं स्यात्। एवं च सति ‘ऊयतुः, ऊयुः' इति न सिध्यति। नैतत्, एवं लोके परेणैव स्वरेण सस्वरत्वमित्याह- परेणैवेति। ननु “सम्प्रसारणं यवृतोऽन्तस्थानिमित्ता:" (३। ८। ३३) इत्यनेन सम्प्रसारणसंज्ञा विधेया, सा चैतद्विधानमन्तरेण न सिध्यति, उत्पन्नस्य सत: संज्ञाकरणाद् अन्तरेण च संज्ञाम् एतद् विधानं न सिध्यति । इतरेतराश्रयदोषात् संज्ञाविधानं च न सिध्यतीत्याह-सम्प्रसारणमित्यादि। न हीदानी सम्प्रसारणसंज्ञा विधीयते येनासो संज्ञासंज्ञिनोविधानमन्तरेण न सम्भवतीति इतरेतराश्रयदोषमावहति। किन्तर्हि सम्प्रसारणनामधेयतया अन्तस्थानिमित्ता वृतो निमित्तत्वेन स्थिताः। केवलं “सम्प्रसारणं य्वृतोऽन्तस्थानिमित्ताः" (३। ८। ३३) इत्यनेनान्वाख्यास्यन्ते इत्यदोषः। ननु यदि अन्तस्थानिमित्ता वृत: सम्प्रसारणम्, तत् किम् अन्तस्थाया इत्यनेन सम्प्रसारणस्यान्तस्थानिमित्तत्वादेवान्तस्थाया: स्थाने भविष्यति। न हि अन्यस्य स्थाने तावदन्तस्थानिमित्नत्वमुपपद्यते इत्याह–अन्तस्थेत्यादि। अन्यथा 'अभ्यासविकारेष्वपवादो नोत्सर्ग बाधते' (कात० प०६४) इति न्यायात् सम्प्रसारणविधिरपवादोऽप्युत्सर्गेणाभ्यासलोपेन बाध्यते ततो व्यथादीनां धातूनाम् "अभ्यासस्यादिळञ्जनमवशेष्यम्" (३। ३ । ९) इति यकारस्य लोपे वकारस्य संप्रसारणं स्यादिति। “विव्यथे' इति। "व्यथेश्च" (३। ४। ५) इति सम्प्रसारणम्। 'विव्याध' इति “परोक्षायामभ्यासस्योभयेषाम्" (३। ४। ४) इति।। ५४०।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy