SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३१२ कातन्त्रव्याकरणम् (३।४७८) इति सूत्रबलात् पथीयतीत्यत्र नाम्यन्तानाम् इत्यत्र यिन उपादानाद ईत्त्वं दीर्घत्वं च स्यात्। अन्यथा यिनि यस्य व्यावृत्तिबलात् तयोर्विषय एव नास्तीति। नकारो लुप्यते येनेत्यनेन बहुव्रीहेरर्थकथनवाक्यं दर्शितम्। लोपे इति यदा कर्मणि घञ्, तदा नकारो लोपो येन समानाधिकरणोऽयं बहुव्रीहिः, यदा भावे घञ् तदा नकारस्य लोपो येनेति भिन्नाधिकरणोऽयं बहुव्रीहिः। पुंस्यतीत्यपीति। नियमद्वारेण अकारलोपो न प्राप्नोतीति शब्दकार्यत्वाल्लोपः प्राप्तः। तर्हि यदि शब्दकार्यत्वादेव सिद्धस्तदा चतुर्यतीत्यादिषु कथं न पठित: ? सत्यम्। 'चतुर्यति' इत्यत्र नियम सामर्थ्यान्न प्राप्नोतीति अत्र विधिः, अत्र नियमो घटते, नकारलोपे विधि: अकारलोपे नियम इति तेषां मध्ये न पठितः। अकारलोपस्तु "पुंसोऽन्शब्दलोपः” (२।२।४०) इत्यत्र नकारकरणसामादित्यर्थ:। अन्यथा अलोप इत्यास्ताम् “अनुषङ्गश्चाक्रुञ्चेत्" (२।२।३९) इत्यनेन नकारलोप: सिद्ध एव।। ७२६ । [समीक्षा] कातन्त्रीय व्याख्याकारों के अनुसार प्रकृत सूत्र नियमसूत्र है, विधिसूत्र नहीं। अत: 'यिन–आयि' प्रत्ययों के परे रहते केवल नलोप ही होता है, अन्य कार्य नहीं। पाणिनि ने इस प्रकार का नियम नहीं बनाया है। उनके नलोपविधायक सूत्र हैं - “अनिदितां हल उपधाया: क्डिति, “अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्डिति (अ० ६।४।२४, ३७)। [विशेष वचन] १. कथं ‘गोमान्, पचन्, पुमान्' ? यिन्नाय्योर्चुटि प्रत्ययलोपलक्षणस्यानित्यत्वात् (दु० वृ०)। २. योगोऽभिधीयमानो व्यञ्जनमेव सन्निधापयतीतरस्य च निवृत्तिरित्याहअर्थादिति (दु० टी०)। ३. नकारो हि वर्णस्तदपेक्षया वर्णकार्यस्य निवृत्तिरिति भावः (दु० टी०)। ४. नलोपो हि व्यञ्जननिमित्तको व्यञ्जनाश्रितमेव कार्य व्यावर्तयति (८० टी०)। ५. एतदर्थमेव गणात् पृथगायिरित्युक्तम्, सौत्रयोरेव यिन्नाय्योरनुवर्तनार्थम् (वि० प०)। ६. अत एव बहुव्रीह्यर्थमेव पुनर्लोपग्रहणम् (वि० प०)। ७. नकारोऽयं वर्णस्तदपेक्षया वर्णाश्रयमेव कार्य नियमेन व्यावर्त्यते इति भाव: (वि० प०)। ८. साहचर्यान्नलोपश्चेति वचनं चतुष्टयप्रकरणविहितमेव कार्य विदधाति (बि० टी०)। ९. ज्ञापकस्य सर्वोद्दिष्टत्वाद् यावन्ति कार्याणि प्राप्नुवन्ति तावन्त्येव नियमेन व्यावर्त्यन्ते (बि० टी०)।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy