________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
३११
नियमार्थमित्याह
यिन्नाय्योर्नलोप एवेति। यदि पुनर्नस्य लोपो नलोपः इति तत्पुरुषः स्यात् तदा विधिरयं स्यात्, न नियमः । ततश्च 'अग्नीयति, धनीयति' इत्यादावपि नलोपः प्रसज्येत। अत एव बहुव्रीह्यर्थमेव पुनर्लोपग्रहणम्, अन्यथा नस्य चेति विदध्यात्, अनुवर्तते एव हि लोप इति । 'विद्वांसमिच्छति, विद्वानिवाचरति' इति विगृह्य यिन्नायी “अनुषङ्गश्चाक्रुञ्चेत्” (२ । २ । ३९) लिङ्गान्तनकारस्य " व्यञ्जने चैषां निः” (२। २। ३८) इत्येतेषामुदाहरणं दर्शितम् । पुंस्यतीत्यपीति । “पुंसोऽन्शब्दलोपः " (२। २। ४०) इत्यत्रान् शब्दलोपग्रहणसामर्थ्यादकारस्यापि लोप इति, अन्यथा अनुषङ्गलोपस्य सिद्धत्वात् पुंसोऽलोप इति कृते सिध्यतीति भावः । नियमः किमिति। अन्यथा दिवमिच्छतीति यिनि कृते " दिव उद् व्यञ्जने” (२ । २ । २५) इति वकारस्योत्वं स्यात् । आदिग्रहणेन 'विद्वस्यति' इत्यादौ "विरामव्यञ्जनादिष्वनडुन्नहि० " (२। ३ । ४४) इत्यादिना दत्वादिकञ्च न स्याद् इति दर्शितम् ।
कथमित्यादि। नकारोऽयं वर्णस्तदपेक्षया वर्णाश्रयमेव कार्यं नियमेन व्यावर्त्यते इति भावः। ‘सर्पिष्यति, धनुष्यति' इत्यादि । नलोपो हि व्यञ्जननिमित्तकः सन्निधानाद् व्यञ्जनाश्रितमेव कार्यं व्यावर्त्तयितुमर्हतीति, तेन " इसुस्दोषां घोषवति र:" (२ । ३ । ५९) इति रत्वं न भवति। यत्वं पुनरपेक्षितपरनिमित्तं पूर्वं नामिनमाश्रित्य स्यादेव । गोमन्तमिच्छति, पचन्तमिच्छति, पुमांसमिच्छतीति यिन्, ततो नलोपे सति क्विप् “य्वोर्व्यञ्जनेऽये' (४। १ । ३५) इति यिनो यकारलोप:, ततो भूतपूर्वा प्रकृतिरिहानिदनुबन्धानाम् इति पर्युदासाश्रयणाद् गणपरिपठितानामेषामेवानुषङ्गलोप: क्विपि नास्ति, प्रत्ययलोपलक्षणेन यिनि पुनः प्राप्नोतीति चेद् दर्शयन्नाह — कथमित्यादि । यिन्नाय्योर्घुविषये परिभाषेयमनित्येत्यर्थः। उदनुबन्धशन्तृङ्पुंसामेवेति । अन्यत्र प्रत्ययलोपलक्षणं स्यादेव। यथा पन्थानमिच्छति, पन्था इवाचरतीति पूर्ववद् यिन्यायौ च कृते पथ्यौ, मथ्याविति । ननु गोमानिति कथमिह दीर्घो भवति, धातुत्वात् ? सत्यम् । “अन्त्वसन्तस्य चाधातोः सौ” (२। २। २०) इति, तत्रान्तग्रहणमौपदेशिकधातुप्रतिपादनार्थम् अयं चोपदेशावस्थायामधातुरेव । "ते धातव:" (३ । २ । १६) इत्यनेन यिनन्तस्य धातुत्वात् । तथा पुमानित्यत्रापि ‘“सान्तमहतोर्नोपधायाः” (२।२ । १८) इति दीर्घो न विहन्यते ।। ७२६ ।।
"
-
[बि० टी० ]
नलोपः । [पाठान्तरम् - राजीयति, पथीयतीति । ननु “यिन्यवर्णस्य, नाम्यन्तानाम्” (३। ४। ७८, ७०) इत्यादिना यिनि ईत्त्वं दीर्घत्वं च न स्यात् । नलोपश्चेति वचनं चतुष्टयप्रकरणकार्यं विदधाति, व्यावृत्तिस्तु तत्प्रकरणीयकार्ये कर्तव्ये स्यात्, नान्यस्मिन् प्रकरणीये इति केचित् । यथा नलोपो हि व्यञ्जनकार्यम्, अन्यथा व्यञ्जनकार्ये कर्तव्ये व्यावृत्तिः स्यात् । अत्र तु स्वरस्य कार्यमिति, तदसत् । यावता ज्ञापकस्य सर्वोद्दिष्टत्वाद् यावन्ति कार्याणि प्राप्नुवन्ति तावन्त्येव नियमेन व्यावर्त्त्यन्ते तत् कथं चतुष्टयप्रकरणविहितस्यैव व्यावर्तनमिति निश्चितम् । वस्तुतस्तु राजीयतीत्यत्र “यिन्यवर्णस्य”