SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३०८ कातन्त्रव्याकरणम् बोधयति- प्रकृतेरपि बहुत्वं 'विद्यते, अत एव गण: प्राप्तः। यस्येति। नन सस्वरयकारलोपे किं दूषणम्, अकारेण वा किं प्रमाणम् ? सत्यम्। सस्वरयकारलोपे मार्गीयतीति न स्यात्, यिनि यकारलोपे "यिन्यवर्णस्य" (३।४।७८) इतीत्त्वं न स्याद् अकारान्तत्वाभावात्। कारणं तु पूर्वपरयोरेकवर्णलोपात्। परो हि साध्वर्थे विहितयकारादेर्नकारोऽपि रूढादन्यश्च रूढात् स्याद् अकाराद् गणस्यैव भवति, अकारद्वारेण प्राप्ते निषेधमाहनन्वित्यादि। अप्राप्तौ विधिमाह-नकारादेरिति। गर्गाणां समूह इत्यत्र बहुत्वे “रूढानां बहत्वेऽविधिमाह- नकारादेरिति। गर्गाणां समूह इत्यत्र बहुत्वे "रूढानां बहुत्वेऽस्त्रियाम्" (२। ४५) इत्यादिना यलोपस्तत: समूहेकण् युक्तार्थवद्भाव इत्यादिना सहैकवाक्येऽर्थवद्भावे 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति यकारागमे सति लोपः। मत्स्यस्य यस्येत्यादि। ये तु गणार्थं मन्यन्ते, तेषान्तु मते कर्तव्य एव। योगविभाग एवापत्यप्रत्ययाभावात्। ये तु न्याय्यं पाठं मन्यन्ते तेषां मते योगविभागः। मत्सीत्यत्र तद्धितत्वाभावाद् अगस्त्यशब्दस्य ईकारलोपार्थो योगविभागः। ईकारादौ तद्धितानामाकृतिप्रधानत्वात् सिद्धं यदुक्तम्, तदेतदपि विषयीकरोतीत्युक्तम्। यद् वा आकृतिप्रधानत्वात् सिध्यति यदक्तम्, तन्नियमार्थ तिष्यपृष्ययोर्यलोपोऽणि नक्षत्रेऽण्येव नान्यतद्धितप्रत्यये परे इति। ये तु तद्धितानामाकृतिप्रधानत्वं मन्यन्ते, तेषां मते सर्वत्रैव प्रयोजनम्। अस्माकं तु मते 'सौमी ऋक्' इत्यत्र योगविभागद्वारेण यलोपः। न्याय्यपाठमते त्वत्र यकारप्रत्ययः, किन्तु अपत्यार्थमारोप्यान्यत्र तद्धितप्रत्ययाभावः इति भेदः। अत उक्तम् - तद्धितानामाकृतिप्रधानत्वात्।। ७२५ । [समीक्षा] 'गार्गी, गार्गीयति, गार्गकम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में यलोप का विधान किया गया है। पाणिनि के एतदर्थ चार सूत्र हैं- "सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः, हलस्तद्धितस्य, आपत्यस्य च तद्धितेऽनाति, क्यच्च्योश्च" (अ०६।४।१४९, १५०, १५१, १५२)। इस प्रकार पाणिनि की रचना में गौरव स्पष्ट है। 'यिन्–आयि' दो ही प्रत्ययों का उल्लेख होने पर भी 'यिन्नायिषु' इस बहुवचन का प्रयोग 'गण' का बोध कराता है, जिससे 'च्चि-ई' आदि प्रत्ययों का भी ग्रहण होता है। व्याख्याकारों ने तद्धितान्त शब्दों को आकृतिप्रधान बताया है। 'यस्य' पद से अभीष्ट 'य' प्रत्यय में अकार उच्चारणार्थक है। [विशेष वचन] १. यिन्नायीष्विति न्याय्य: पाठस्तद्धितानामाकृतिप्रधानत्वात् (दु० वृ०)। २. गणात् पृथगायिरुत्तरार्थ: (दु० वृ०)। ३. अपत्यार्थविहितत्वादपत्यमित्युच्यते (दु० टी०)। ४. अनेन वृत्तिकारेण परमतमावेदितम् (वि० प०)।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy