________________
२५६
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. जजागरतुः। जागृ + परोक्षा-अतुस्। ‘जागृ निद्राक्षये' (२।३६) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद-प्र० पु०-द्विव० 'अतुस' प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु'' (२।३७) से धातु को द्विवचनादि, प्रकृत सूत्र से ऋकार को गुण-अर् तथा 'रेफसोर्विसर्जनीयः' (२। ३। ६३) से सकार को विसर्गादेश।
२. जजागरुः। जागृ + परोक्षा-उस्। 'जागृ निद्राक्षये' (२।३६) धातु से परोक्षासंज्ञक प्र० पु०-ब० वः 'उस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ६९४।
६९५. ऋतश्च संयोगादेः [३।६।१५] [सूत्रार्थ]
संयोगादि तथा ऋकारान्त धातु को अगुण परोक्षासंज्ञक प्रत्यय के परे रहते गुण आदेश होता है।। ६९५।
[दु० वृ०]
संयोगादेर्धातोर्ऋतश्च परोक्षायामगुणे गुणो भवति। सस्मरतुः, सस्मरः। कथं सञ्चस्करतुः, सञ्चस्करु: ? 'भसिद्धं बहिरङ्गमन्तरङ्गे' (काः परिः ३३) इत्यनित्योऽयम्।। ६९५।
[दु० टी०]
ऋत० । संयोग आदिरवयवो यस्येति विग्रहः। सस्वरतरिति। 'स्व शब्दोपतापयो:' (१।२७१)। कथं सञ्चस्करतुरिति। साधनं हि क्रियां निवर्तयति, तामुपसर्गो विशिनष्टि। न हि स्वरूपेणाभिनिर्वृत्तस्य विशेषाकाङ्क्षा भवति। उक्तञ्च – 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेति' (सीरः परि० १२८)। तस्मादुपसर्गसम्बन्धो बहिरङ्गस्तन्निमिनः सुडपि बहिरङ्गो भवति। समानपदस्थत्वाद् गुणोऽन्तरङ्गः, 'असिद्धं बहिरङ्गमन्तरङ्गे' (काः परि० ३३) इत्याह – अनित्योऽयमिति। 'संस्क्रियते' इत्यादिषु तु नित्यैवेषा परिभाषेति। समस्कार्षीदिति। सुटि कृते पश्चाद् अट, तत्र धातग्रहणसामर्थ्यात् "ऋतश्च संयोगादेः" (३।६।१५) इति सिद्धे, संयोगात् परस्य ऋत इति भावः। यदिह धातुविशेषणमादिग्रहणं तत् प्रायोगिकपरिग्रहार्थम। एवञ्च प्रायोगिकपरिग्राहक: स्याद् यदि द्विवचनात् प्राक् सुट् स्यात्। सर्वोद्दिष्टमिदं तेन ‘सञ्चेस्क्रीयते, समचिस्करत्' इत्यपि सिद्धम्। यदि साधनप्रयोगोऽन्तरङ्गः कथम् 'आस्यते, गुरुणा' इत्यात्मनेपदं भावे, 'अध्यास्यते गुरुणा' इति कर्मणि ? सत्यम्, ‘अकर्मका अपि धातव: सोपसर्गा: सकर्मका भवन्ति' इत्युपसर्गमभ्यन्तरं कृत्वात्मनेपदमभिधीयते भावेऽपि वचनात्। ___ अपरस्त्वाह – 'पूर्व धातुरुपसर्गेण युज्यते पश्चात् साधनेन' इति । यदुक्तम् – धातुः पूर्व साधनेन सम्बध्यते, किमसौ धात्वर्थो विद्यमानः स्वेन स्वेन भावेन साधनेन सम्बध्यते आहोस्विद् अविद्यमानो विषयः ? प्रथम साधनसम्बन्धवेयथ्यं स्यात्, द्वितीये