SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४६ कातन्त्रव्याकरणम् ५. वीतवान्। अज् + क्तवन्तु + सि। 'अज्' धातु से कर्ता अर्थ में क्तवन्त प्रत्यय, अज् को वी-भाव, लिङ्गसंज्ञा तथा विभक्तिकार्य ।।६३० । ६३१. अदालुंग् विकरणस्य [३।४।९१] [सूत्रार्थ] अदादिगणपठित धातुओं से होने वाले 'अन्' विकरण का लुक् होता है।। ६३१ । [दु० वृ०] अदादेर्गणाद् विकरणस्य लुग् भवति। अत्ति, हन्ति, जुहोति, बिभेति, जुहुत:, बिभीत:। लग्लोपत्वान्न गणः। विकरणस्येति किम् ? अनन्। अदाद्यन्तर्गणो जुहोत्यादिरिति।। ६३१। [दु० टी०] अदा० । लुञ्चनं लुक् । 'लन्च अपनयने' (१।४७), सम्पदादित्वाद् भावे क्विप्। सार्वधातुकं कर्तृत्वार्थस्य साहाय्यायोत्पद्यते। विकरणस्येत्यादि। “अदादेलुंगनः' इति कृते अन्निति किमयं सानुबन्धो निरनुबन्धो वा, ततश्च ‘अघ्नन्' इति “असन्ध्यक्षरयोरस्य तौ तल्लोपश्च" (३।६।४०) कृते प्राप्नोतीति विप्रतिपद्येत ।। ६३१ । [वि० प०] अदा० । अघ्नन्निति ह्यस्तन्यविकरणस्य लुक्, “गमहन्” (३।६। ४३) इत्यादिनोपधालोपः, "लुप्तोपधस्य च" (३।६।२९) इति घत्वम्। यदि विकरणग्रहणमपनीय अदादेलुंगित्युच्यते, तदा किमयं सानुबन्धो निरनुबन्धो वेति संशयः। निरनुबन्धपक्षेत्रापि विकरणाकारस्य "असन्ध्यक्षरयोरस्य तौ तल्लोपश्च" (३। ६। ४०) इति कृते अन् विद्यते इति स्यात्। सानुबन्धपक्षे सिध्यत्येवाभिमतं विकरणस्यैवान: सानुबन्धत्वात् । केवलम् अत्रांश निश्चायको नास्तीति विकरणस्येत्युच्यते।। ६३१ । [बि० टी०] अदा० । ननु "अन् विकरणः कर्तरि" (३।२।३२) इत्यत्र अन्–विकरण: कर्तरि अनदादेरिति क्रियताम्। न च देश्यम्, यादृग्जातीयस्येति न्यायाददादेर्गणवर्जनसादृश्याद् विधिरपि गणे स्यात्। ततो गणपरिपठितधातोरन् स्यात्, न चिकीर्षादेः। यद् वा "भावादिकर्मणोर्वोदुपधात्" (४। १ । १७) इत्यत्र व्यवस्थित८.धिकाराद् गुण्यनः स्याद् इत्युक्तम् , तेन 'गुधितम्' इत्यत्र न स्यादिति न सङ्गच्छते। किञ्चायं कृत्प्रकरणानपेक्षित्वाद् कथं सूत्रमिदं दुर्गवाक्ये दुर्गवाक्य- टीकाकारेष्वेवमाह – अदादेरनकरणात्। तेनासार्वधातुककर्तृत्वात् अस्य साहचर्याभावात् कर्तृत्वं नोपपद्यते।। ६३१ । ।। इति श्रीबिल्वेश्वरटीकायामाख्याते तृतीयाध्याये चतुर्थः सम्प्रसारणपादः समाप्तः।।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy