SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२६ कातन्त्रव्याकरणम् द्वारा चेक्रीयितसंज्ञक 'य' प्रत्यय, प्रकृत सूत्र से घ्रा-धातु मं अन्तिम आकार को ईकार, "चण्परोक्षाचेक्रीयितसनन्तेषु'' (३। ३। ७) से 'घी' को द्वित्व, अभ्याससंज्ञा, रेफ का लोप, ह्रस्व, अभ्यासवर्ती इकार को गुण, “द्वितीयचतुर्थयो: प्रथमतृतीयौ'' (३। ३ । ११) से घ् को ग्, “कवर्गस्य चवर्ग:'' (३। ३। १३) से ग् को ज्, 'जेघ्रीय' की धातुसंज्ञा तथा विभक्तिकार्य। २. देध्मीयते। ध्मा + य + ते। पुन: पुनर्धमति। 'ध्या शब्दाग्निसंयोगयो:' (१।२६६) धातु से क्रियासमभिहार अर्थ में 'य' प्रत्यय, प्रकृत सूत्र स धातुगत आकार को ईकार तथा अन्य प्रक्रिया प्राय: पूर्ववत् ।।६१६। ६१७. यिन्यवर्णस्य [३।४७७] [सूत्रार्थ 'यिन्' प्रत्यय के परे रहते अवर्ण के स्थान में ईकार आदेश होता है।। ६१७ । दु० वृ०] यिनि परेऽवर्णस्य ईकारो भवति। वस्त्रोयति मालीयति। च्वो च दीर्घाभवति - मालीस्यात्। अशनायोटन्यधनाया: बुभुक्षापिपासाकाङ्क्षासु निपाता रूढाः। अशनमिच्छति भोक्तम् अशनायति। उदकमिच्छति पातुम् उदन्यति। धनमिच्छति तृष्णक् - धनायति।। ६१७। [दु० टी०] यिन्य० । अवर्णस्याग्रहण प्राप्ने ईत्वमुच्यते। च्वौ चेत्यादि। रूढिशब्दा हि तद्धिता इति च्वावीत्वं मन्यते। अशनायेत्यादि। अन्यत्राशनमिच्छति दातुम् अशनीयतीति आन्वं न भवति। उदकमिच्छति स्नानाय उदकीयति, कस्य नत्वमलोपश्च न भवति। धनमिच्छति दानाय धनीयति. अत्राप्याकारो न भवति। अत्र समाधिः – परदर्शने ये निपातास्ते रूढाः, तत्र धातव एव यिन्यभिधीयन्ते! अशनमिन्छति भाक्तम्, उटकमिच्छति पातुम्, धनमिच्छति तृष्णग् इति नाम्नो यिन्प्रत्ययो नाभिधीयते। एवं “वृषाश्वयोः सश्चान्तो मैथुनतृष्णायाम्' इति न वक्तव्यम्। वृषमिच्छति गोमैथुनाय-वृषस्यति। एवम् अश्वस्यति बडवा। आभ्यां तु यिन्नाभिधीयते। तथा "नामिनोऽसन्तश्चादनतृष्णायाम्" इति न वक्तव्यम्। दधि भक्षितुमिच्छति 'दध्यस्यति, दधिष्यति'। एवं 'मध्वम्यति. मधुष्यति' । क्षीरास्यति, क्षीरस्यति। लवणास्यति, लवणस्यति। क्षीरलवणाभ्यां सान्तत्वमेवेति एके।। ६१७। [वि० प०] यिन्य० । च्वौ चेति। एतत्तु तद्धितानां रूढिशब्दत्वात्। अशनायेत्यादि। अत्र यथायोगमात्त्वम्, कस्य च नत्वम् अलोपश्चेति निपात्यते। अन्यत्राशनमिच्छनि दातम् अशनीयति। उदकमिच्छति स्नानाय उदकोयति। धनमिच्छति दानाय धनीयति इति व्याख्यानम्, पुनरत्र परदर्शने ये निपाता रूढास्त इह धातवाऽभिधीयन्ते! अशनायधातु
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy