________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
११७ ६. चेचीयते। चि + य + ते। पुन: पुनरतिशयेन वा चिनोति। 'चिञ् चयने' (४। ५) धातु से “धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे'' (३। २।१४) सूत्र द्वारा चक्रीयितसंज्ञक 'य' प्रत्यय “चण्परोक्षाचेक्रीयितसनन्तेषु'' (३।३। ७) से धातु को द्विवचन, अभ्याससंज्ञा, प्रकृतसूत्र से धातुगत - इकार को दीर्घ, 'चेचीय' की धातुसंज्ञा, वर्तमानासंज्ञक आत्मनेपद - प्रथमपुरुष – एकवचन 'ते' प्रत्यय, अविकरण तथा अकारलोप।
___७. पटूकरोति। अपटुं पटुं करोति। ‘पटु' शब्द से 'च्चि' प्रत्यय तथा प्रकृत सूत्र से दीर्घ आदेश।। ६०९।
६१०. इणोऽनुपसृष्टस्य [३। ४। ७०] [सूत्रार्थ]
आशीविभक्तिसंज्ञक यकारादि प्रत्यय के पर में रहने पर उपसर्गरहित 'इण्' धातु को दीर्घ होता है।। ६१०।
[दु० वृ०]
इणो धातोरनुपसृष्टस्यैवाशिषि ये परे दी? भवति । ईयात्, ईयास्ताम्। अनुपसृष्टस्यैवेति किम् ? अन्वियात्। यणो व्यवहितपाठान्नेहानुवृत्तिरिति गम्यते। तेन ‘समीयते' इति नियमो न स्यात्।। ६१०।
[दु० टी०] ___ इणो० । “नाम्यन्तानां यणायि०" (३। ४। ७०) इत्यादिना दीघे सिद्ध वचनमिदं नियमार्थमित्याह - इणोऽनुपसृष्टस्यैवेति, इण एवानपसष्टस्येति न विपरीतनियम: श्रुतत्वादिण इति । यस्तु समानलक्षणो दीर्घ: सम्भवत्येवेत्यत्र दर्शनम् अतीयात्, प्रतीयात् । नैयासिकास्तु ह्रस्वं विदधते, अविशेषाद् ह्रस्व इति मन्यन्ते। तन्मतेनात्र पूर्वलोपो द्रष्टव्यः। यण् इत्यादि। यद्यनुवृत्तिरिष्टा आशी:समीपे यणः पाठः कृतः स्यादिति भावः।। ६१०।
[वि० प०]
इणो० । पूर्वेणैव सिद्ध नियमार्थमिदम्। नियमश्च श्रुतत्वादिणः प्रकृतेरेवेत्याह – इणोऽनुपसृष्टस्यैवेति। अथाशिषि 'ये' इति कथमुक्तम् – बहवो हि प्रत्यया: पूर्वमुक्ता इति ? सत्यम्, यिन्नायिच्वीनां लिङ्गप्रत्ययानां चेक्रीयितस्यापि व्यञ्जनादिविहितस्येणो धातो: स्वरादे स्त्येव सम्भवः, तर्हि कथं यणो नानुवृत्तिरित्याह – यणो व्यवहितेत्यादि। अन्यथा आशिष: समीपमेव यणं पठेत्। ततः पारिशेष्यादनन्तराशीरेवानुवर्तते इति न दोषः।। ६१०।
[बि० टी०]
इणो०। नियमश्च श्रुतत्वादिण: प्रकृतरित्यादि सूत्रनिर्दिष्टत्वात् श्रुत इण: आशीरनुवर्तनादनुमिता अत एव 'श्रुतानुमितयोः श्रौतसम्बन्धो विधिर्बलवान्' (का०