SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः इत्यादिषु पचामीत्येवमादिकमेव प्राप्नोतीति । एवं च वृत्तौ पचामीत्येवं प्राप्नोतीति यदुक्तं तत्र सर्वत्र पचामीत्येवं प्रयोगः स्यादित्यर्थः । अस्मिन् पक्षे पञ्जी एवं योजनीया तत्साधनान्यपि नाभिधीयन्ते परपुरुषेण एकसाधनानि नाभिधीयन्त इत्यर्थः, अपि तूत्सर्गसिद्धं प्रत्येकमेकवचनमेव प्रवर्तत इत्यर्थः । एकमेवेदं लक्षणमिति । जातिपुरस्कारेण लक्षणवाक्यस्य प्रवृत्तौ जातेरेकत्वादेकलक्षणमिति भावः । कथमन्यं निवर्तयितुं शक्नोतीति । अस्मिन् जातिपक्षे विधिः स्यादित्यर्थः । २३ अतः पर्यायेण स्यादिति । यथा ब्राह्मणक्षत्रियादीन् एकस्मिन् पात्रे भोजयेत्युक्तेऽसहभुजां तेषामेकस्मिन् पात्रे एकदा भोजनासम्भवात् पर्यायेण प्रवर्तनमिति, परिभाषेयमिति । ननु यदि व्यक्तिपक्षे परिभाषेयमुच्यते तदानेन परपुरुषप्रवृत्तौ सत्यां 'व्यक्तौ प्रतिलक्ष्यं लक्षणानि भिद्यन्ते' (कलाप० २२१ ।५३ ) इति न्यायादेतल्लक्ष्यं प्रति " नाम्नि प्रयुज्यमानेऽपि प्रथमः, युष्मदि मध्यमः” (३।१।५, ६) इति सूत्रद्वयस्यानवकाशत्वे कः समाधिः स्यात् ? सत्यमेतत् । परिभाषाकरणादेवानुमीयते एतल्लक्ष्यं प्रति नाम्नि प्रयुज्यमान इत्यादि सूत्रद्वयमाचार्येण नारब्धमिति न्यासः । ननु स च त्वं चाहं चेत्यादिषु प्रयोगेष्वस्मदः परत्वात् पूर्वपरयोरित्यादिनैवोत्तमः पुरुषो भविष्यति किमनेन सूत्रेणेति मनसि कृत्वाह - न च वक्तव्यमिति । यत इति युगपद्वचनमेककालोक्तिः, अक्रमाभिधानमिति न विद्यते क्रमेणाभिधानं प्रयोगो यस्मिन् युगपद्ववचन इति विग्रहः । एतदुक्तं भवति - यदि प्रयोगमादाय पूर्वपरव्यवहारः क्रियते, तदा 'अहं च त्वं च स च पचाम:' इत्यादिषु परः पुरुषो भवन् नाम्नः परत्वात् प्रथमः पुरुष एव स्यात् । तदनुषङ्गिणामिति नामयुष्मदस्मत्संबन्धिनाम् इत्यर्थः । प्रतिपत्तिरियं गरीयसीति | सूत्रे स्थिते हि पुरुषाणामिति बहुवचनेन नाम्नीत्यादिसूत्रक्रमस्थितप्रथममध्यमोत्तमानामुपस्थापितत्वेन पुरुषाणां मध्ये परत्वविचारे सूत्रक्रमेणैव परत्वं गृह्यते इति किञ्चिद् गौरवमिति || ४२० | [समीक्षा] पाणिनि ने “कडाराः कर्मधारये " ( अ० २।२ । ३८ ) सूत्रपर्यन्त की संज्ञाओं में एकसंज्ञाधिकार घोषित किया है - " आकडारादेका संज्ञा" (अ० १।४।१) । उसमें भी परवर्तिनी संज्ञा ही प्रवृत्त हो, तदर्थ " विप्रतिषेधे परं कार्यम्” (अ०१ । ४ । २) सूत्र बनाया है । कातन्त्रकार ने तीनों पुरुषों के विधिसूत्र बनाने से पूर्व केवल उन्हीं के संबन्ध में यह परिभाषारूप नियम प्रस्तुत किया है कि दो या तीनों पुरुषों का जहाँ प्रयोग हुआ हो वहाँ परवर्ती पुरुष की प्रवृत्ति होगी, अर्थात् क्रियापद का
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy