SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ (अ) कटः स्वयमेव । एवम् अलविष्ट केदारः स्वयमेव, अलावि केदारः स्वयमेव, अदुग्ध गौः स्वयमेव, अदोहि गौः स्वयमेव || ४९२ । ५१ । [दु० टी०] ४५१ अद्यतन्यां स्वरान्तश्च वेति । अत्रापि कर्तृस्थ इत्येव । अद्यतन्यामिति विषयसप्तमी, चकारेण दुहिरनुकृष्यते ! अकृत कटः स्वयमेव, अकारि कटः स्वयमेव । अलविष्ट केदारः स्वयमेव, अलावि केदारः स्वयमेव, अदोहि गौः स्वयमेव || ४९२।५१ । [वि० प० ] अद्यतन्यां स्वरान्तश्च वा । अत्रापि कर्मकर्तृस्थ एवेति अद्यतन्यां विषये स्वरान्तो यो धातुश्चकाराद् दुहिश्च कर्मकर्तृस्थो वा रुचादिरित्यर्थः । अकार्षीत् कटं देवदत्तः, अकृत कटः स्वयमेव, अकारि कटः स्वयमेव । " ह्रस्वाच्चानिटः " ( ३ | ६ |५२) इति सिचो लोपः । पक्षे कर्मवद्भावाद् इच्प्रत्यये वृद्धिः “इचस्तलोपः” (३।४।३२) इति च । एवम् अलविष्ट केदारः स्वयमेव, अलावि केदारः स्वयमेव । अदुग्ध गौः स्वयमेव । पूर्ववद्घत्वादि । "दुहदिहलिहगुहाम्” इति सण् विकल्पितः । पक्षे सिजपि नास्तीति वक्ष्यति । अदोहि गौ: स्वयमेव || ४९२ ।५१ । [क० च०] अद्य० । इदमपि कर्मवद्भावबाधनार्थम् ||४९२ | ५१ | ४९२/५२. स्नुनमौ स्वयम् [दु० बृ०] कर्मकर्तृस्थ इति निवृत्तम् । स्वयम् इत्यधिकृतस्य कर्तुर्विशेषणम् । स्वयं कर्तरि स्नुनमौ रुचादी भवतः । अनन्यप्रेरिते कर्तरीत्यर्थः । प्रस्नुते गौः स्वयमेव । पयो मुञ्चतीत्यर्थः । नमिरयमन्तर्भूतकारितार्थः । नमयति दण्डं देवदत्तः, नमते दण्डः स्वयमेव । कर्मवद्भावस्य बाधकत्वाद् यणिचौ न भवतः । स्वयमिति किम् ? प्रस्नौति गौर्दोग्धुः कौशलेन नमति पल्लवो वातेन ।। ४९२ । ५२ । [दु० टी०] " स्नुनमौ स्वयमिति । कर्मकर्तृस्थमिति निवृत्तम् । स्वयमित्यधिकृतस्य कर्तुर्विशेषणं स्वयं कर्तरि, अनन्यप्रेरिते कर्तरीत्यर्थः । प्रस्नुते गौः स्वयमेव पयो मुञ्चतीत्यर्थः। नमते दण्डः स्वयमेव । अन्तर्भूतकारितार्थो 'नमयति दण्डं छात्रः' इति कर्मवद्भावस्य बाधितत्वाद् यणिचोरविषयः । स्वयमिति किम् ? प्रस्नौति गौर्दोग्धुः कौशलेन, नमति पल्लवो वातेन ।। ४९२।५२ ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy