________________
४५०
कातन्त्रव्याकरणम्
[वि०प०]
किरादिश्रन्थिग्रन्थिसनन्ताः कर्मकर्तृस्थाः । आदिशब्दः प्रकारक्चनः । किरतिप्रकाराः किरादयः शिष्टप्रयोगानुगम्याः स्वभावादन्तर्भूतकारितार्थाः कर्मकर्तृस्थत्वात् कर्मवद्भाव: प्राप्तस्तदपवादः कर्तर्यात्मनेपदं विधीयते । अवकारयति हस्तिनं हस्तिपकः । अवकिरते हस्ती स्वयमेव | ग्रथनाति मालां मालाकारः । ग्रथ्नीते माला स्वयमेव | ग्रथ्नाति मालां मालिकः, ग्रथ्नीते माला स्वयमेव । चिकीर्षति कटं देवदत्तः, चिकीर्षते कटः स्वयमेव ||४९२।४९।
[क० च०] किरादि० । कर्मकर्तृस्थक्रियावचनतया धातुरपि तत्स्थो व्यपदिश्यते ।।४९२।४९ ।
४९२/५०. दुह [दु० वृ०]
'कर्मकर्तृस्थ' इति वर्तते । कर्मकर्तृस्थो दोग्धी रुचादिर्भवति । दोग्धि गां गोपालकः । दुग्धे गौः स्वयमेव ।।४९२।५०।
[दु०टी०] दुहेति । दोग्धि गोपालको गाम् । दुग्धे गौः स्वयमेव ।। ४९२ । ५०। [वि० प०]
दुह । कर्मकर्तृस्थ इति वर्तते । दोग्धि गोपालको गाम् । दुग्धे गौः स्वयमेव | "दादेर्घः" (३।६।५७) इति हस्य घत्वे "घटषभेभ्यस्तयोर्थोऽधः, धुटां तृतीयश्चतुर्थेषु" (३।८।३, ८) इति च भवति ।। ४९२।५०।
[क० च०] दुह० । कथम्,
उदारकीर्तेरुदयं दयावतः प्रशान्तबाघं दिशतोऽभिरक्षया। स्वयं प्रदुग्धेऽस्य गुणैरुपस्तुता वसूपमानस्य वसूनि मेदिनी ॥
इति भारविः? सत्यम् । पदमिह स्खलितम् इत्येके, तन्न । द्विकर्मक दुहधातौ प्रधानकर्मविषये कर्मकर्तृस्थम् अतोऽप्रधानकर्मणः प्रयोगो दुर्निवार्य इति कुलचन्द्रः ।।४९२।५०।
४९२/५१. अद्यतन्यां स्वरान्तश्च वा [दु० वृ०]
अत्रापि कर्मकर्तृस्थ इत्येव । अद्यतन्यां विषये स्वरान्तो यो धातुश्चकाराद् दुहिश्च कर्मकर्तृस्थो रुचादिर्भवति वा । अकार्षीत् कटं देवदत्तः, अकृत कटः स्वयमेव, अकारि