SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४४४ कातन्त्रव्याकरणम् निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि | स्वभावादपपूर्वो जानातिरपह्नवे वर्तते।।४९२।३९। [दु० टी०] निह्नवे ज्ञाः । शतमपजानीते । निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि । अपपूर्वो जानातिरपह्नवे ।। ४९२ । ३९ । [वि० प०] निह्नवे ज्ञाः । शतमपजानीते, सहस्रमपजानीते । अपहृते इत्यर्थः । “ज्ञश्च" (३।६।८२) इति जादेशः, “उभयेषाम्" (३।४।४४) इत्यादिना आकारस्येकारः । निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि | स्वभावादपपूर्वो जानातिरपह्नवे वर्तते।।४९२।३९। [क० च०] निह्नवे० । अनुपसर्ग इति न सम्बध्यते, अपादेव निवार्थस्य वाचकत्वाच्चेद् अपाज्ज्ञा इति कथं न कृतम् ? सत्यम्, स्पष्टार्थम् ।। ४९२।३९ । ४९२/४०. अकर्मकश्च [दु० वृ०] अकर्मको ज्ञा रुचादिर्भवति । सर्पिषो जानीते | नात्र सर्पितॆयत्वेन विवक्षितम् अपि तु ज्ञानस्य भेदकत्वेनेत्यकर्मत्वम् । इह न भवति - स्वरेण पुत्रं जानाति, सकर्मकत्वात् ||४९२।४०।। [दु० टी०] अकर्मकश्चेति । सर्पिषो जानीते । सर्पिरत्र ज्ञानस्य भेदकत्वेन विवक्षितम् इत्यकर्मता ।।४९२।४०। [वि० प०] अकर्मकश्च । सर्पिषो जानीते । नात्र सर्पिज्ञेयत्वेन विवक्षितम् अपि तु ज्ञानस्य भेदेन इत्यकर्मकत्वम् । इह न भवति-स्वरेण पुत्रं जानाति, सकर्मकत्वात् ||४९२।४०। [क० च०] अकर्म० । कथं 'वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिराम्, जानीते जयदेव' (गीत० १।४) इत्यत्रात्मनेपदम्, सकर्मकत्वात् । तथा 'जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽपि दृष्टा मया, न जाने स प्रधानो मे शूरहस्ती सदामदः' (दुर्गासप्त० १।१३) इत्येतदर्थम् “अनुपसर्गाज्ज्ञा" (अ० १।३।७६) इति पाणिनिसूत्रम् ? सत्यम्, चकारात् सकर्मकश्च रुचादिः, स चाभिधानादनुपसर्ग एव । जयदेवप्रयोगे तु वयं ब्रूमः- 'वाचः
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy