SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४४३ परिशिष्टम् -१ (अ) [दु० टी०] प्रोपाभ्याम्० । प्रक्रमते भोक्तुम् । उपक्रमते भोक्तुम् | आरभते इत्यर्थः । अङ्गीकरणमप्यारम्भः । प्रक्रमते शुश्रुषाम् । उपक्रमते शुश्रूषाम् । आरम्भ इति किम् ? पूर्वेयुः प्रक्रामति, गच्छतीत्यर्थः । अपरेधुरुपक्रामति, आगच्छतीत्यर्थः।। ४९२।३७। [वि० प०] प्रोपाभ्यामारम्भे । प्रक्रमते भोक्तुम्, उपक्रमते भोक्तुम् | आरभते इत्यर्थः । कथं प्रक्रमते, शुश्रूषामङ्गीकरोतीत्यर्थः ? सत्यम्, अङ्गीकरणमप्यारम्भविशेष एवेत्यदोषः । आरम्भ इति किम् ? पूर्वेद्युः प्रकामति, गच्छतीत्यर्थः। परेधुरुपक्रामति, आगच्छतीत्यर्थः।। ४९२।३७। [क० च०] प्रो० । कथं 'ते तां हन्तुं प्रचक्रमुः' (दुर्गासप्त० २।४९) इति चण्ड्यां परस्मैपदम् ? सत्यम्, नात्रारम्भो विवक्षितः, किन्तु गतवन्त इत्यर्थः।। ४९२ । ३७। ४९२/३८. अनुपसर्गो वा [दु० वृ०] अनुपसर्गः क्रमो रुचादिर्भवति वा । क्रमते, क्रामति । अनुपसर्ग इति किम् ? संक्रामति । क्रम इति निवृत्तम्।।४९२।३८। [दु० टी०] अनुप० । क्रमते, क्रामति । अनुपसर्ग इति किम् ? संक्रामति ।।४९२।३८। [वि० प०] अनुपसर्गो वा । क्रमते, क्रामति । क्रम इति निवृत्तम्।।४९२।३८ । [क० च०] अनु० । ननु विकल्पे उभयपदस्यैव न्याय्यत्वाद् यजादिपाठ एव न्याय्यः ? सत्यम्, कत्रभिप्राये क्रियाफले एव यजादिष्वात्मनेपदं विधीयते, इह तु सामान्येनैव विधीयते । इह तु सामान्येनैवेति वररुचिश्च । प्रसङ्गादत्रैव पाठः इत्यपरे । कथं 'वारिपूर्णा महीं कृत्वा पश्चात् संक्रमते गुरुः, अर्घरात्रे कलाहीने यदा संक्रमते रविः' ? सत्यम्, अत्र सम उपसर्गप्रतिरूपकत्वाद् अनुपसर्गता । 'संक्रमते' इति पाठः सुप्रसिद्धः इति चकारादन्यत्रापीति केचित् । अपरे तु संचरते' इति पाठमाहुः, तन्न । तृतीयान्तपदाभावात् समस्तृतीयायुक्त इत्यस्याविषयत्वात् ।। ४९२ । ३८। ४९२/३९. निहवे ज्ञाः [दु० वृ०] निह्नवेऽर्थे ज्ञा रुचादिर्भवति । शतमपजानीते, सहस्रमपजानीते । अपहृते इत्यर्थः ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy