SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४२४ कातवव्याकरणम् ४९२/७. अनुपरिभ्यां च क्री [दु० वृ०] अनुपरिभ्यामाङश्च परः क्रीड् रुचादिर्भवति । अनुक्रीडते, परिक्रीडते, आक्रीडते । 'क्रीडते नागराजः' इति प्रयोगदर्शनादनुपसर्गादपि क्रीडतेरात्मनेपदं चकारादिति बोद्धव्यम् ||४९२१७। [दु० टी०] अनुपरि० । चकार आङोऽनुकर्षणार्थः । अनुक्रीडते, परिक्रीडते, आक्रीडते । माणवकमनुक्रीडतीति । माणवकेन सह क्रीडतीत्यर्थः । कर्मप्रवचनीयोऽयमनुर्बहिरङ्गः अनुपरिभ्यामाङा च युक्तः क्रीडिति ।।४९२।७। [वि० प०] अनुपरि० । अनुपरिभ्यां च क्रीड्, चकारादाङश्चेति । अनुक्रीडते, परिक्रीडते, आक्रीडते । इहापि पूर्ववद् उपसर्गग्रहणाद् बालकमनुक्रीडतीत्यत्र न भवति । सहार्थे कर्मप्रवचनीयोऽयमनुशब्दः । बालकेन सह क्रीडतीत्यर्थः ।।४९२।७। [क० च०] अनुपरि० । कथं 'शल्लक्यामस्थिभागस्थलबलरहितः क्रीडते नागराजः' इति, सत्यम् । अपप्रयोग इति महान्तः । चकारादिति शरणदेवः ।।४९२।७। ४९२/८. समोऽकूजने [दु० वृ०] सम उपसर्गात् परः क्रीडती रुचादिर्भवति । अकूजने - अव्यक्तशब्दकरणभिन्नेऽर्थे गम्यमाने । संक्रीडन्ते कुमाराः । अकूजन इति किम् ? संक्रीडति शकटः । अव्यक्तशब्दं करोति ।।४९२।८। [दु० टी०] समो० । क्रीडतीत्येव । संक्रीडन्ते कुमाराः । अकूजन इति किम् ? संक्रीडन्ति शकटानि, अव्यक्तशब्दं कुर्वन्तीत्यर्थः । शिक्षेर्जिज्ञासायामिति न वक्तव्यम् - विद्यासु शिक्षते, धनुषि शिक्षते । 'शिक्ष विद्योपादाने' (१।४२८) इत्यात्मनेपदिना सिद्धम्, विद्योपादानस्य ज्ञातुमिच्छामन्तरेणासम्भवात् ।।४९२।८। [वि० प०] समो० । कूजनम् अव्यक्तशब्दकरणम्, ततोऽन्यदकूजनम्, संक्रीडन्ते कुमाराः । अकूजन इति किम् ? संक्रीडति शकट: । अव्यक्तशब्दं करोतीत्यर्थः ।। ४९२।८।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy