SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ (अ) ४९२/५. गमिन् क्षान्तौ ४२३ [दु० वृ०] पूर्वसूत्राद् आङ् अनुवर्तते । आङः परो गमिरिनन्तो रुचादिर्भवति क्षान्तौ प्रतीक्षायां गम्यमानायाम् | आगमयस्व तावत् । मानुबन्धत्वाद् ह्रस्वः । कञ्चित् कालं प्रतीक्षस्व इत्यर्थः ।। ४९२ ।५। [दु० टी० ] गमिन्० । आङ् इत्यनुवर्तते । आगमयस्व मा त्वरिष्ठाः । सहस्व कञ्चित् कालमित्यर्थः। ननु चेन्ग्रहणं किमर्थम्, कालहरणन्चागमिरिनन्त एव वर्तते ? सत्यम्, सुखप्रतिपत्त्यर्थमेव । नात्र परापकारमर्षणादि . क्षमा विधीयते || ४९२ ।५ । [वि० प० ] गमिन्० । आङिति वर्तते । गमिन्निति इनन्तो निर्देशः, मानुबन्धत्वाद् ह्रस्वः । क्षान्तिरिह प्रतीक्षाकालहरणमुच्यते । आगमयस्व तावत् कञ्चित् कालं क्षमस्व प्रतीक्षस्वेत्यर्थः || ४९२।५। [क० च०] गमिन्० | क्षान्ताविति किम् ? आगमयति माम् || ४९२ |५| ४९२/६. नुप्रच्छौ [दु० बृ०] आङः परौ नु-प्रच्छौ रुचादी भवतः । आनुते शृगालः । उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः । आपृच्छते गुरून् शिष्यः । आराधयतीत्यर्थः ।। ४९२ । ६ । [दु० टी०] नुप्र० । आङ् इत्येव । आनुते शृगालः, आपृच्छते गुरुम् । नौतिरत्रोत्कण्ठापूर्वके शब्दने वर्तते ।। ४९२।६। [वि० प० ] प्र० । आङित्येव वर्तते । आनुते शृगालः । उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः । आपृच्छते गुरून्, आराधयतीत्यर्थः ।। ४९२ । ६ । [क० च०] नुप्र० । असम्भवात् क्षान्तिरिह नानुवर्तते । आमन्त्रित इत्यर्थः । आङः प्रच्छि: कुशलप्रश्न इति कुलचन्द्रः । आमन्त्रण इति प्राञ्चः । ' आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् ' ( मेघ० - १।१२ ) इति मेघदूतः || ४९२ । ६ ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy