SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २८३ तृतीये आख्याटाध्याये द्वितीयः प्रत्ययपादः कर्मकस्तत इनन्तात् परस्मैपदमेव । आस्ते माणवकम्, आसयति माणवकम् । चलनाहारार्थेभ्यश्च चलयति, कम्पयति । आशयते माणवकम्, भोजयति । प्रद्रुसुबुधियुधिनशिजनीभ्यः । प्रावयति । प्रापयतीत्यर्थः। द्रावयति । द्रवं करोतीत्यर्थः। स्रावयति । स्यन्दयतीत्यर्थः । गत्यर्थेभ्यश्चलनार्थकत्वात् सिद्धम् । बोधयति माणवकं श्लोकम् । ननु कथं "पत्रेण ताः पटुभिर्निनादैः प्रबोधयन्ते मृगराजकन्याः" इति । तथा "करेणुरारोहयते निषादिनम्" इति माघे? सत्यम् । स्खलितमिदम् । योधयति काष्ठम्, नाशगति रोगम्, जनयति सुखम्, अध्यापयति माणवकम् । धेट- वदवसपादमाङ्यमाङ् – यसाङ्-परिमुहरुाचनृतीभ्य आत्मनेपदमेव । धेट-धापयते । वद - शिशुं वादयते । वस निवासे - वासयते । पा पाने -पाययते । दमु -दमयते ।आङ्यम-आयमयते ।आङ्यस- आयसयते |परिमुह - परिमोहयते । रुच - रोचयते । एवं च- 'रोचयति लोचनचकोरम्' (गी० गो० १०।१) इति जयदेवप्रयोगे प्रमादः । नृती – नर्तयते । अद्यतन्यां गुतादीनां वृतादेः स्यसनोरपि । तथाकृतिगणादेव श्वस्तन्यामुभयं कृपेः॥ अयमपरो यजादिः । अयमर्थः- अद्यतनीविषये यदुभयपदं द्युतादीनां भवतीत्यर्थः । अथ अविधानबलादेव परस्मैपदं भविष्यति, किमनेन विशेषवचनेन । नैवम्, ज्ञापकान्नित्यमपि परस्मैपदं ज्ञायते । अद्यतन्या अन्यत्र भवतीति संभाव्यते, ज्ञापकस्य सर्वोद्दिष्टत्वात् ।स्यसनोरिति भावे सप्तमी ।युतादयः कृपूपर्यन्ताः ।धुताद्यन्तर्गणो वृतादिः । व्यधुतत्, व्यद्योतिष्ट । वर्त्यति, वर्तिष्यते ।विवृत्सति, विवर्तिषते । कल्प्स्यति, कल्पिष्यते । चिक्लृप्सति, चिकल्पिषते । श्वस्तन्याम् – कल्प्ता, कल्पिता ।। ४९५। [समीक्षा] 'कारयति-कारयते, यजति - यजते, सुनोति - सुनुते' इत्यादि परस्मैपदआत्मनेपद के दो - दो प्रयोगों के सिद्ध्यर्थ पाणिनि तथा शर्ववर्मा दोनों ने ही नियम बनाए हैं। पाणिनि ने जिन धातुओं को स्वरितेत् कहा है, उनके लिए शर्ववर्मा ने यजादिगण बनाया है । पाणिनि ने णिच्-प्रत्ययान्त धातुओं से कत्रभिप्रायक क्रियाफल में आत्मनेपद के विधानार्थ "स्वरितञितः कत्रभिप्राये क्रियाफले" (अ० १।३।७२) के अतिरिक्त "णिचश्च' (अ० १।३।७४) सूत्र बनाया है । शर्ववर्मा ने तीनों का संग्रह एक ही सूत्र में कर दिया है। यह विशेष ज्ञातव्य है कि शर्ववर्मा ने इन्प्रत्ययान्त, ञकारानुबन्धविशिष्ट तथा यजादिगणपठित धातुओं से कर्तृवाच्य में सामान्यतः उभयपद का विधान किया है,
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy