SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् सिद्धत्वाद् उताप्योः समर्थयोर्नित्यं सप्तमीति न वक्तव्यम् । समर्थयोरिति बाढार्थयोरित्यर्थः । ततः कुर्यात्, अपि कुर्यात् । बाढं करिष्यतीत्यर्थ: । नन्वित्यादि । जीवतु भवान् इति प्रार्थनप्रकार एवायम् । यदाह चन्द्रगोमी - प्रार्थनं याचनमिष्टाशंसनं चेति । प्रार्थने विध्यादिलक्षणेनैवास्ति पञ्चमी, तत् किमिहाशिषि तस्या विधानेनेति पूर्वपक्षार्थः । उत्तरवादी तु मन्यते युक्तमिदं किन्तु परापि विध्यादिलक्षणा पञ्चमी आशिषि विधानात् तदपवांदभूतयाशिषा विभक्त्या बाध्यते सा बाधितापि यथा स्यादिति पुनराशिषि पञ्चमी विधीयते ।। ४३५। [क० च०] सम० । परैरित्यादि वृत्तिः । परैरशक्यस्य वस्तुनः क्रियारूपस्य कर्तव्यत्वेनावसायः समर्थनेत्यर्थः । अस्यार्थ इत्यादि । क्रियासु योग्यताध्यवसाने इति, दुष्करक्रियासु सामर्थ्यप्रकटने चेद् यदि अलं सामर्थ्यवाचकः शब्दः सिद्धाप्रयोगो भवति तदा सप्तमीति वाक्यार्थः । सिद्धाप्रयोगः इति । सिद्ध ः अप्रयोगः प्रयोगाभावो यस्येति विग्रहः । अलमिति किमिति । ननु यदि सूत्रे अलंशब्दः खण्ड्यते तदा कस्य वस्तुनः सिद्धाप्रयोग इति । न च यस्य कस्यचिदप्रयोग इति वाच्यम्, सर्वत्रैव यस्य कस्यचित् सिद्धाप्रयोगत्वेन व्यावृत्तेरभावात् ? सत्यम्, तदोपस्थितस्य संभावनावाचकस्य सिद्धाप्रयोग इति प्रतिपत्तव्यम् । अत एव विदेशस्थायी प्रायेणागमिष्यतीत्यत्र संभावनावाचकोऽपि शब्दादिर्न प्रयुक्त इति । अलमिति इतिशब्दस्य विवक्षितार्थत्वाद् अलंशब्दयोगेऽपि क्वचिद् भवतीति । यथा अलं देवदत्तो हस्तिनं हन्यादिति वररुचिः | प्रयोगतश्चेति सिद्धमित्युक्तमिति । ननु कथमिदं संगच्छते, यावता प्रयोगतश्चेत्यत्र तासामित्यनुवर्तते तस्य च पूर्ववस्तुपरामर्शित्वेन कथं तेन सूत्रेण सप्तमी विधीयताम्, न चेह सप्तम्या : कालविशेषोऽस्ति ? सत्यम्, इह सूत्रे यश्चकारः सः उत्तरार्थस्तेन विध्यादिषु चेत्युक्ते प्रयोगतः प्रयोगानुसारेण सप्तमी पञ्चमी चेति वाक्यार्थो गम्यते, ततश्च वृत्तौ प्रयोगतश्चेत्यस्य प्रयोगानुसारादिति बोध्यम् ।।४३५ । [समीक्षा] पाणिनि ने आशी: अर्थ में लिङ्- लोट् का तथा शक्नोति = समर्थना अर्थ में लिङ् लकार का प्रयोग किया है – “आशिषि लिङ्लोटौ, शकि लिङ् च" (अ० ३।३।१७३, १७२) । कातन्त्रकार ने समर्थना अर्थ में जो पञ्चमी विभक्ति का प्रयोग किया है उसके विषय में व्याख्याकारों का स्पष्टीकरण है कि शर्ववर्मा
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy