SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १७ भूमिका व्याख्याचतुष्टयोपेतस्य चतुरध्यायात्मकस्यास्य कातन्त्रव्याकरणस्य पञ्चषखण्डेषु परिकल्पितां महतीं प्रकाशनयोजनां १९९६ तमे यीशवीयाब्देऽङ्गीकृत्य वाराणसेयसम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन तदीयप्रकाशनसमित्या च बलीयान् कश्चित् स्वीयः प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पः संसाधितः पूर्वम् । तदनुसारं १९९७ तमे यीशवीयवर्षे सार्धचतुःशतपृष्ठात्मकः सन्धिविषयकः प्रथमो भागः, १९९८ तमे यीशवीयाब्दे नामचतुष्टयाध्यायस्य द्वितीयभागस्य प्राथमिकपादत्रितयात्मकः प्रथमखण्डः प्रकाशितोऽभूत् । तस्यैव द्वितीयभागस्योत्तरार्धवर्तिकारकसमासतद्धितेतिपादत्रितयात्मको द्वितीयखण्डोऽधुना प्रकाशनपदवीमुपयाति । अत्रापेक्षितनिर्देशन-व्यवस्था-समाधानादिकार्यजातस्य निर्वाहाय कुलपति - कुलसचिवप्रकाशननिदेशक-तदीयसहयोगिनोऽपि नूनं वन्दनीया यशोभाजश्च भवन्ति । तस्मात् परममाननीयान् कुलपतिश्रीराममूर्तिशर्ममहोदयान् प्रति प्रणामाञ्जलिना, कुलसचिवाद्यधिकारिवर्गं प्रति विनयव्यापारेण, अथ च सुहृद्वर्यान् प्रकाशननिदेशकश्रीहरिश्चन्द्रमणित्रिपाठिमहोदयान् प्रति सुहृत्सम्मितसद्भावध्वनितधन्यवादप्रदानेन च स्वीयां कृतज्ञतां विज्ञापयामि । ईक्ष्यपत्रसंशोधनादिकार्येषु कौशलेन साहाय्यमाचरन्तः डॉ० हरिवंशपाण्डेयकन्हईसिंहकुशवाहाप्रभृतयः प्रकाशनविभागीयसदस्यास्त्वरितसन्मुद्रणयोजनाव्यापारपरा आनन्दप्रिंटिंगप्रेससञ्चालकश्रीदिवाकरत्रिपाठि-तदीयसहयोगिनोऽपि सन्ति धन्यवादार्हाः । भूमिकावचःसारमिदमवश्यमेव ध्येयमास्ते एषु श्लोकवचनेषु जैनीयव्याकरणमेव मतं कलापं यस्माद् दिगम्बरमुनिः श्रुतशर्ववर्मा। एवं वदन्ति मुनयो जिनपक्षदक्षा बौद्धं बभूव ननु भोटपरम्परायाम्॥१॥ कातन्त्रनीतिनिपुणा बहुधा विदन्ति यत्सारसाधकमिदं सरलं क्रियायाम्। बह्नर्थसंभृतमहो विशदां च शैलीमाविष्करोति सततं बुधभावनीयाम् ॥२। चतुर्थे पादे कारकमिह विभक्तीर्वितनुते समासः षोढा वै तदनु बहुभेदानधिगतः। ततः षष्ठे प्रोक्तो बहुजनहितस्तद्धितविधिः समीक्षायां सर्वं निहितमिदमास्ते बहुफलम् ॥३॥
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy