SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २२२ कातन्त्रव्याकरणम् अघोषे रेफस्य विसर्ग एवोक्त इति विसर्जनीयात् परो भवति । 'सर्पिष्षु, धनुष्षु' इति । सृपेरिस्, धनेरुस् । प्रकृतिसकारस्य अन्तरङ्गत्वात् पूर्वं षत्वम्, ततः सुपः सकारस्येति । ननु विसर्जनीयान्तरत्वात् षत्वे कृते पश्चात् पररूपत्वं भविष्यति किं षान्तरवचनेन । तदयुक्तम्, षत्वात् पररूपविधेरन्तरङ्गत्वाद् विकारस्थस्य सकारस्य षत्वे सति षान्तरत्वात् षत्वं न स्यात् । अपीत्यादि । अङ्गुलीना सङ्ग इति तत्पुरुषः । अङ्गुलीनां सङ्गो यस्मिन् सोऽगुलीषङ्गो वायुरिति भिन्नाधिकरणो वा बहुव्रीहिः।। ___अग्निष्टुदिति । अग्निं स्तौतीति क्विप् । “धातोस्तोऽन्तः पानुबन्धे" (४।१।३०) इति तोऽन्तः । दीर्घादिति । दीर्घान्तादग्निशब्दादित्यर्थः । अग्निश्च सोमश्चेति विग्रहे "देवताद्वन्द्वेऽग्नेः सोमवरुणयोः" इति दीर्घत्वं तत्पुनर्हस्वस्य दीर्घता इत्यत्र क्वचिदधिकारादन्यत्र भवतीति । ज्योतिरग्निः, सोमश्च लता। तयोर्द्वन्द्वे अग्निसोमाविति । "ज्योतिरायुभ्यां च" (कात० परि०, १० ७) इति चकारेणाग्निरनुकृष्यते । ज्योतिषां स्तोम इति विग्रहः । समास इत्येवेति ज्योतिरिति प्रथमा, नपुंसकलक्षणः सिलोप इति इत्यादय इति । अन्येऽप्येवं षत्वविषयाः शिष्टप्रयोगानुसारेण वेदितव्या इति ||३३२ । [क० च०] नामि० । नात्र नामिकराः परे यस्मादिति बहुव्रीहिः, असम्भवात् । अत उक्तं वृत्तौ 'नामिकरेभ्यः' इति । ननु पञ्चमीनिर्देशेनैव सिध्यति किं परग्रहणेन ? सत्यम् । परग्रहणम् अधिकद्योतनार्थम्, तेन ककारेण कवर्गत्वं रेफेण चान्तस्थोपलक्ष्यते । यथा प्रार्छ, नजिषु, हल्षु, क्रुषु, दुख्षु । वररुचिस्तु परग्रहणं "हस्वात् तादौ तद्धिते" (कात० परि०, १० २२) नाम्नः षत्वार्थमित्याह । तदपिशब्देन साधितमिति महान्तः। एकपदं यथासङ्ख्यनिवृत्त्यर्थमिति कुलचन्द्रः। तन्न । रेफादागमस्थस्य सकारस्यासंभवाद् वैषम्य-संबन्धाच्चेति । अन्यथा एकपदेऽपि कथं तद्भाव इति महान्तः। ननु ‘भीरुष्ठानम्' इत्यादौ निमित्तात् परस्य विकारभूतस्य षकारस्य विद्यमानत्वात् षत्वं सिध्यति किमपिशब्दस्य बाहुल्याश्रयणेन ? सत्यम् । “उपसर्गात् सुनोति" (कात० परि०, ष० २३) इत्यादिना षत्वविधानबलात् पदान्तरस्थानिमित्तात् षत्वं नास्तीति ज्ञाप्यते । तेनापिशब्दस्य बाहुल्याश्रयणमेव शरणम् । अत एवानन्त्य इति यल्लभ्यते तदप्येकपदमात्रे तात्पर्यम्, अन्यथा स्थग्रहणाभावेऽनन्त्यग्रहणसत्त्वे टीकाकृता
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy