________________
१८१
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० टी०]
काल० । सूर्याचन्द्रमसोर्ग्रहनक्षत्राणां च परिस्पन्दोपचरित इह गृह्यते कालः । भावः क्रिया (भावना) व्यापार इति पर्यायः । कालभावयोर्विशेषणीभूतयोरिति संबन्धः । क्रियाया धातुवाच्यायाः सप्तम्याः संभवो नास्तीति क्रियाविशिष्टं साधनं प्रत्ययवाच्यम् इह गृह्यते । सामर्थ्याच्च क्रियावानेव विशिष्यते इत्याह – गोषु दुह्यमानास्वित्यादि। समानाधिकरणत्वादुभयत्र सप्तमी, यथा उपाध्याये व्याख्यातरि पटुरयम् । ‘जीवति तु वंश्ये युवा' इत्यादि भवतेर्गम्यमानत्वात् । कश्चिदाहकालग्रहणमनर्थकम्, विषयसप्तम्यैव सिद्धत्वात् । नेदमाधाराधेयविवक्षायां सूत्रम्, किन्तु विशेषणविशेष्यभावे तृतीया स्यादिति । तथा च प्रत्युदाहरणे यो जटाभिः स भुङ्क्ते इति तृतीया दर्शिता । कथन्तर्हि ‘मत्ताः शरदा हंसाः' इति ? सत्यम्, करणविवक्षा, न तु विशेषणमिति मतम् । यो भोक्तेत्यादि । साहचर्याद् वेति । वाशब्देनैतत् सूचितम्-लिङ्गार्थस्यान्तरङ्गत्वात् प्रथमैव अभ्युपगम्याप्युच्यते साहचर्यादिति भावो विशेषणं भवन्नपरस्य भावस्यैव विशेष्यस्येति भावः।
प्रसिद्धेत्यादि । नहि स्वयमप्रसिद्धमन्यस्य विशेषणं भवति । तथा ब्राह्मणेषु भुनानेषु वृषला आसते । वृषलेष्वासीनेषु ब्राह्मणा भुञ्जते । वृषलेषु भुनानेषु ब्राह्मणा आसते । ब्राह्मणेष्वासीनेषु वृषला भुञ्जते । कारकार्हाणां कारकत्वेऽकारकार्हाणामकारकत्वे तविपर्यासे च सप्तमीयमिति । ब्राह्मणा भुजिक्रियामर्हन्तीति कारकार्हाः। तेषां भुजिक्रियां प्रति कारकत्वम् । ब्राह्मणापेक्षया वृषला भुजिं प्रति साधनत्वं नार्हन्तीति अकारकार्हाः । भुजिं प्रति न कारकाः । ब्राह्मणानपेक्ष्य वृषला अकारकार्हा अपि भुजिं प्रति कारकाः । ब्राह्मणा कारकारे अपि भुजिं प्रति न कारकाः इत्युदाहरणद्वयं तद्विपर्यासे सर्वत्र ब्राह्मणादिसंबन्धिन्या भुजिक्रियया वृषलादीनामासनक्रियापेक्ष्यते इति संग्रहः । षष्ठी चानादरे वक्तव्या, भावे सप्तमी सिद्धैव । रुदतः प्राव्राजीदिति रुदन्तमनादृत्य गत इत्यर्थः । सा न वक्तव्येत्याह - रुदत इत्यादि । रुदतः संबन्धी गतः इत्युक्तेऽपि का वस्तुक्षतिरिति ।। ३१९।
[वि० प०]
काल०। यो भोक्तेत्यादि भावस्तावद् विशेषणं तत्साहचर्याद् भाव एव यदा विशेष्यस्तदा सप्तमी । अत्र तु देवदत्तो द्रव्यं विशेष्यमिति कुतः सप्तमीप्रसङ्गः । अथवा