SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ भूमिका ७. ईषदर्थक - 'कु' शब्दस्य कादेशः (कालवणम्, काम्लम्) कातन्त्रे - का त्वीषदर्थेऽक्षे (२।५।२५) । पाणिनीये - का पथ्यक्षयोः, ईषदर्थे (अ० ६ |३|१०४, १०५ ) । अपत्यार्थे अणूप्रत्ययः (औपगवः, पाण्डवः, शैवः) कातन्त्रे - वाऽणपत्ये (२।६।१)। ८. पाणिनीये - तस्यापत्यम् (अ० ४। १ । ९२) । ९. इदमः स्थाने इकारादेशः ( इतः, इह, इदानीम् ) कातन्त्रे - तत्रेदमिः (२।६।२५)। पाणिनीये - इदम इशू (अ० ५।३।३) । १०. सर्वनामशब्देभ्यस्तस्प्रत्ययः ( सर्वतः, यतः, ततः बहुतः) कातन्त्रे - पञ्चम्यास्तस् (२।६।२८ ) | पाणिनीये - पञ्चम्यास्तसिल् (अ० ५।३।७) । ११. सर्वनामशब्देभ्यस्त्रप्रत्ययः ( सर्वत्र, तत्र, यंत्र, कातन्त्रे - त्र सप्तम्याः ( २ । ६ । २९ ) । पाणिनीये - सप्तम्यास्त्रल् (अ० ५ । ३ । ११०) । १२. किमादिशब्देभ्यो दाप्रत्ययः (कदा, सर्वदा, यदा, एकदा, अन्यदा) कातन्त्रे - काले किंसर्वयत्तदेकान्येभ्य एव दा (२ | ६ | ३४ ) | पाणिनीये - सर्वेकान्यकिंयत्तदः काले दा (अ० ५।३।१५) । १३. सर्वनामशब्देभ्यः 'था' प्रत्ययः (सर्वथा, यथा, तथा, अन्यथा ) कातन्त्रे - प्रकारवचने तु था (२ । ६ । ३८ ) | पाणिनीये - प्रकारवचने थालू (अ० ५ | ३ | २३) । १४. इवर्णावर्णयोर्लोपः (आत्रेयः, दाक्षिः, गार्ग्यः, तुल्यः ) बहुत्र) कातन्त्रे - इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च (२|६|४४) । पाणिनीये - यस्येति च (अ० ६ |४| १४८) । १५. ओकारौकारयोरवावादेशौ ( औपगवः, गव्यम्, नाव्यम् ) कातन्त्रे - कार्याववावावादेशावोकारौकारयोरपि (२।६।४८) । ३
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy