SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् प्रस्तूयते । कातन्त्रीयं किञ्चिद् विधानं पाणिनीयव्याकरणेन सह साम्यं भजते, किञ्चिच्च ततो भिन्नरूपमालक्ष्यते । तद् यथा - विध्यादिनिर्देशे साम्यम् (सप्तदश कार्याणीह दर्शितानि) १. अव्ययीभावसमासेऽमादेशः (उपकुम्भम्) कातन्त्रे - अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः (२।४।१)। पाणिनीये - नाव्ययीभावादतोऽम्त्वपञ्चम्याः (अ०२।४।८३) । अपादानसंज्ञा (वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति) कातन्त्रे- यतोऽपैति भयमादत्ते वा तदपादानम् (२।४।८)। पाणिनीये - ध्रुवमपायेऽपादानम्, भीत्रार्थानां भयहेतुः (अ० १।४।२४-२५)। एवं सम्प्रदानादयोऽन्या अपि कारकीयाः संज्ञाः समाना एव । ३. प्रथमाविभक्तिविधानम् (उच्चैः, वृक्षः, एकः, द्रोणः, हस्तः, काष्ठम् ) कातन्त्रे- प्रथमा विभक्तिर्लिङ्गार्थवचने, आमन्त्रणे च (२।४।१७-१८)। पाणिनीये - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, संबोधने च (अ० २।३।४६ - ४७)। एवमन्यासामपि विभक्तीनां विधाने प्रायेणैकरूपतैवावलोम्यते । ४. कर्तृकर्मकारकयोः षष्ठीविभक्तिः (भवतः शायिका, अपां स्रष्टा) कातन्त्रे- कर्तृकर्मणोः कृति नित्यम् (२।४।४१) । पाणिनीये - कर्तृकर्मणोः कृति (अ० २।३।६५) । नकारस्य णकारादेशः (पुरुषेण, अhण, अर्केण, दर्पण, तिसृणाम्) कातन्त्रे- रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि (२।४।४८)। पाणिनीये - रषाभ्यां नो णः समानपदे:-क्षुम्नादिषु च (अ० ८।४।१-३९)। विशेष्यविशेषणपदयोः समासस्य कर्मधारयसंज्ञा (नीलोत्पलम्) कातन्त्रे- पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः (२।५।५)। पाणिनीये - तत्पुरुषः समानाधिकरणः कर्मधारयः (अ० १।२।४२)। अन्या अपि समाससंज्ञाः समानरूपतां बिभ्रति ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy