SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६६ कातन्त्रव्याकरणम् शब्दशक्तिप्रकाशिका - यत्क्रियायां यादृशार्थः सप्तम्या विग्रहस्थया । बोध्यस्तस्यां तदेवाधिकरणं नाम कारकम् ।। ( कारिका ७२ ) । [ रूपसिद्धि ] १ . कटे आस्ते । औपश्लेषिक आधार । प्रकृत सूत्र से 'कट' की अधिकरणसंज्ञा तथा " शेषाः कर्मकरण०" (२।४।१९) इत्यादि से सप्तमी विभक्ति । २. तिलेषु तैलम् । अभिव्यापक आधार । 'तिल' की अधिकरणसंज्ञा तथा सप्तमी विभक्ति । ३. दिवि देवाः। वैषयिक आधार । 'दिव्' की अधिकरण संज्ञा तथा सप्तमी विभक्ति का प्रयोग || २९६ । २९७ येन क्रियते तत् करणम् [ २|४|१२] [ सूत्रार्थ ] कर्ता जिसके द्वारा कोई क्रिया करता है, उसकी 'करण' संज्ञा होती है ।। २९७| [दु० वृ० ] कर्त्रा येन क्रियते तत् कारकं करणसंज्ञं भवति । दात्रेण धान्यं लुनाति । मनसा मेरुं गच्छति । तथा पशुना रुद्रं यजते । प्रकृत्याभिरूपः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । शतेन परिक्रीतः । शताय परिक्रीतः । ' त्वं मासं कर्म करिष्यसि ' इति । प्रधानक्रियापेक्षं तादर्थ्यम् । करणप्रदेशाः " करणे तृतीया ” (२।४।१९) इत्येवमादयः ।। २९७। - [दु० टी० ] येन० । येन क्रियते इत्यनेनैतत् सूचितम् । क्रियासिद्धौ यत् प्रकृष्टोपकारकम् अन्तरङ्गं तद् विवक्षितं करणमिति । तथा चाह - कारकाव्यवधानेन क्रियानिष्पत्तिकारणम् । यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy