________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
वाक्यगतविशेषणानां क्रियापदान्वितानां परस्परासम्बन्धित्वेन विशिष्टार्थत्वाभावात् । संज्ञा हि विशिष्टार्थेनार्थवत एव विधीयते इति केचित् । अन्ये तु धातुविभक्तिवजीर्थवदित्यकृत्वा यदसमस्तं निर्दिशति, तद् बोधयति एकार्थेनार्थवतः संज्ञा भवतीत्याहुः - अथ तर्हि कष्टं श्रितादिषु निर्विभक्त्यन्तस्य पदापदसमुदायस्याविस्पष्टार्थस्य लिङ्गसंज्ञा स्यात् ? अथ संज्ञायामपि किं दूषणमिति चेत्, सत्यम् । कष्टं श्रितस्यापत्यं काष्टंश्रितिरित्यपप्रयोगः स्यात् । अत्रोच्यते धातुविभक्त्योः पदापदसमुदायभिन्नयोर्वर्जनादन्यस्यापि पदापदसमुदायभिन्नस्यैव संज्ञा भवति, न तु पदापदसमुदायस्येति संक्षेपः।
१९
ननु वाक्यस्यापि विभक्त्यन्तत्वाद् वर्जनं भविष्यति किं गुरुसंज्ञाकरणेन ? नैवं पदस्यैव विभक्त्यन्तत्वं न तु वाक्यस्य पदभिन्नत्वात् । तथाहि - अथ किं पदान्येव वाक्यं तेभ्योऽन्यद् वा ? अथ पदान्येव तर्हि समुदितानि प्रत्येकं वा । तत्राद्ये उत्तरपदोच्चारणकाले पूर्वपदप्रध्वंसान्नास्ति वाक्यव्यक्तिः । द्वितीये प्रथमपदाद् वाक्यार्थव्यक्तौ द्वितीयपदस्य वैयर्थ्यम् । अतस्तेभ्योऽन्यदिति चेद् अस्माकमयं पक्षः, यतो विभक्त्यन्तेभ्यः पदेभ्योऽन्यत्वाद् वाक्यस्य संज्ञा प्राप्ताऽन्वर्थसंज्ञया निषिध्यते ।
ननु यदि पदेभ्योऽन्यद् वाक्यं तदा पदानि वाक्यस्य किं कुर्वते ? न तावदारभन्ते आशुविनाशित्वात् । नहि विनष्टेष्ववयवेषु व्यक्तेः स्थितिः । अथ व्यञ्जयन्ति तर्हि एकैकशः समुदितानि वा ? आद्ये द्वितीयपदवैयर्थ्यम् । अथ समुदितानि तर्हि क्रमशो युगपद् वा ? न तावत् क्रमशः, द्वितीयपदोच्चारणकाले प्रथमपदध्वंसात् । नापि युगपत्, एकदा सकलपदोच्चारणासंभवात् । अतो नास्ति वाक्यव्यक्तिः कस्मादर्थप्रतीतिर्भविष्यति येनार्थेनार्थवतः संज्ञा विधातव्येति । उच्यते-पूर्वपदानुभवजनितानुभवोऽन्त्यपदेन सह संगच्छते । तत्सहितेनान्त्यपदेनार्थः प्रतिपद्यते इति । एवं तर्हि अन्त्यपदस्य विभक्त्यन्तत्वात् लिङ्ग्ङ्गसंज्ञा न भविष्यति किमन्वर्थसंज्ञयेति ? सत्यम् | पूर्वाचार्यप्रसिद्धा संज्ञा अन्वाख्यायते । अथ तेऽपि वैयाकरणाः कथमेवं कुर्वन्ति स्म इति चेत्, सुखार्थमिति न दोषः ।
अवयव इत्यादि । ननु वृक्षशब्दोच्चारणे व ऋ - क षाः सन्ति । नैतेषां पृथग् योगः, येन विरामकार्यं स्यादित्याह - किञ्चेति हेमकरः, तन्न । संहितायोग्ये काले वर्णान्तराभावो हि विरामः। ततश्च ‘पदयोः सन्धिर्विवक्षितो न समासान्तरङ्गयोः' (कात० प० ६२ ) इति न्यायाद् विकल्पपक्षेऽपि संहिताभावरूपविरतिरस्त्येव कुतो “बा बिरामे” (२/३/ ६२) इत्यादीनां न विषय इति । तस्माद् 'अवयवसिद्धेः समुदायसिद्धिर्बलीयसी'