________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३७३
३. अतितव । अतियुष्मद् + ङस् । त्वां युवां युष्मान् वाऽतिक्रान्तस्य । प्रकृत सूत्र द्वारा 'युष्मद् + ङस्' को 'तव' आदेश |
४. अतिमम । अत्यस्मद् + ङस् । माम्, आवाम्, अस्मान् वाऽतिक्रान्तस्य । प्रकृत सूत्र द्वारा 'अस्मद् + ङस्' को 'मम' आदेश || २३४ |
२३५. अत् पञ्चम्यद्वित्वे [ २।३।१४ ]
[सूत्रार्थ ]
'युष्मद् - अस्मद्' शब्दों से पञ्चमी विभक्ति के द्विवचन 'भ्याम् ' प्रत्यय को छोड़कर 'ङसि' तथा 'भ्यस्' प्रत्यय के स्थान में 'अत्' आदेश होता है || २३५ ।
[दु० वृ०]
युष्मदस्मदादिभ्योऽद्वित्वे वर्तमाना पञ्चमी 'अत्' भवति । त्वत्, मत्, युष्मत्, अस्मत्, अतियुवत्, अत्यावत् । अद्वित्व इति किम् ? युवाभ्याम्, आवाभ्याम् || २३५ | [दु० टी० ]
अत्० । पञ्चमीत्यभेदविवक्षया प्रथमा । श्रुतत्वाद् अद्वित्व इति पञ्चम्या विशेषणं न, युष्मदस्मदोरधिकृतत्वात् । तेन युवामतिक्रान्ताद् अतिक्रान्तेभ्यो वेति विग्रहे प्रतिषेधो न भवति । अद्वित्व इति किम् ? युवाभ्याम्, आवाभ्याम् । ननु 'ङसिभ्यसोरत्' इति कथं न विदध्यात् । ङसिसहचरितो भ्यस् गृह्यते, चतुर्थ्या एव भ्यसोऽभ्यमादेशो भविष्यति, नैवम् । सविभक्त्यधिकाराद् यथासंख्याद् वा दोषः स्यादिति ।। २३५ । [वि० प० ]
1
अत्० । श्रुतत्वाद् अद्वित्व इति पञ्चम्या एव विशेषणं न पुनर्युष्मदस्मदोः । तेन यदा द्वित्वेऽपि युष्मदस्मदी वर्तेते समासप्रकृतिश्चैकत्वबहुत्वयोः, तदाप्यत्वं दर्शयति । अतियुवत्, अत्यावदिति । युवामतिक्रान्तात्, अतिक्रान्तेभ्यः । आवतिक्रान्तात्, अतिक्रान्तेभ्य इति वा विग्रहे ङसेरदादेशो भ्यसो वेत्यर्थः । अद्वित्व इति किम् ? युवाभ्याम्, आवाभ्याम् || २३५ ।
[समीक्षा]
'युष्मद् + ङसि, अस्मद् + ङसि युष्मद् + भ्यस् अस्मद् + भ्यस्, अतियुष्मद् + ङसि, भ्यस्, अत्यस्मद् + ङसि भ्यस्' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही
,