________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२५५ वीर्षीभवति परश्च लोपम्" (१।२।१) से दीर्घ आदेश तथा परवर्ती अकार का लोप | आकारादेश के अभाव में 'दिवम्' रूप ।
२. अतियाम्, अतिदिवम् । अतिदिव् + अम् । पूर्ववत् व् को आ, इ को य, दीर्घ तथा अकारलोप | आकारादेश के अभाव में 'अतिदिवम्' शब्दरूप ।। १८३।
१८४. युजेरसमासे नुर्पुटि [२।२।२८] [सूत्रार्थ]
घुट्संज्ञक प्रत्यय के परवर्ती होने पर असमास में क्विपप्रत्ययान्त 'युज्' शब्द में 'नु' आगम होता है ।। १८४।
[दु० वृ०] __युजिरः क्विबन्तस्यासमासे नुर्भवति घुटि परे । युङ्, युऔ, युञ्जः । असमास इति किम् ? अश्वयुक् ।।१८४।
[दु० टी०]
युजे० ।युजिर इत्यादि ।युनक्तीति "सत्सूद्विष०" (४।३।७४) इत्यादिना क्विम् । 'युज समाधौ' (३।११५) इत्यस्य नुर्न भवति, युजमापन्ना ऋषयः । संपदादित्वाद् भावे क्विप् । तदेतत् कथं चेद् इकारेण 'युजिर योगे' (६।७) इत्युपलक्ष्यते । ननु 'असमासे' इति वचनात् समासविषये समाध्यर्थस्य प्रयोगाद् युजिरेव गम्यते, किमिकारग्रहणेन । यथासम्भवम् असमासग्रहणं प्रयोजयतीति चेत्, समासे युजिरेव निश्चितोऽसमासे कुतो विसदृशस्येति तर्हि प्रतिपत्तिरियं गरीयसीति । 'अश्वयुनि' इति नपुंसकलक्षणो नुर्भवत्येव । 'बयोर्विभाषयोर्मध्ये यो विधिः स नित्य एव' (कलाप०, पृ० २२१, क्रम०३४) भवति ।।१८४।
[वि० प०]
युजेः । युजेरिति सूत्रे इकारनिर्देशात् तदुपलिक्षतो 'युजिर् योगे' (६।७) इत्ययमेव गृह्यते न पुनः 'युज समाधौ' (३।११५) इत्याह - युजिरः क्विबन्तस्येति । युनक्तीति "सत्सूद्धिष०" (४।३।७४) इत्यादिना क्विप् | युडिति । अनेन न्वागमे सति संयोगान्तलोपं बाधित्वा तत्र वर्णग्रहणबलात् "चवर्गZगादीनां च" (२।३।४८) इति