SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २५४ कातन्त्रव्याकरणम् २. हे यौः! हे दिव् + सि । पूर्ववत् व् को औ, इ को य् तथा स् को विसगदिश ।। १८२। १८३. वाम्या [२।२।२७] [सूत्रार्थ] द्वितीयाविभक्ति- एकवचन 'अम्' प्रत्यय के परे रहते 'दिव्' शब्दस्थ वकार को आकारादेश विकल्प से होता है ।। १८३। [दु० वृ०] दिवो वकारस्या भवति वा अमि परे । याम्, दिवम्, अतियाम्, अतिदिवम् ।। १८३ । [दु० टी०] वा। अथ दीर्घोच्चारणं किमर्थम्, अकारे लोपः स्यादिति चेत्, नैवम् । स्त्रीलिङ्गत्वान्मध्ये "स्त्रियामादा" (२।४।४९) भविष्यति, चेदुपसर्जने दुष्यति - दिवमतिक्रान्तं पुरुषम् ‘अतियां पश्य' इति । तुल्यायामपि संहितायां न षष्ठीबहुवचनमिह गृह्यते, दीर्घोच्चारणसामर्थ्यात् । तत्र हि दीर्घ ह्रस्वे वा कृते न्वागमे विशेषाभावात् । अथोपसर्जने न्वागमो मा भूदिति तर्हि व्याख्यानान्निश्चयः सिद्धः ।।१८३। [वि० ५०] वाम्या० । अथ दीर्घोच्चारणं किमर्थम्, अकारे लोपः स्यादिति चेत्, नैवम् | स्त्रीलिङ्गत्वान्मध्ये "स्त्रियामादा" (२।४।४९) भविष्यति, तर्हि उपसर्जने न स्यात् । अत आह - अतिद्यामिति । दिवमतिक्रान्तं पुरुषमिति विग्रहः । इह तु दीर्घात परलोपे सति “वाम्या" (२।२।२७) इति निर्देशस्य समानत्वेऽपि द्वितीयैकवचनमेवेदं न षष्ठीबहुवचनम् , 'व्याख्यानतो विशेषार्थप्रतिपत्तेः' (कात० प० ६५) इति ।। १८३। [क० च०] वाम्या० । व्याख्यानत इति पूर्वस्मिन् परस्मिन् सूत्रे घुट्प्रस्तावादित्यर्थः ।। १८३ । [रूपसिद्धि] १. याम्, दिवम् । दिव् + अम् । प्रकृत सूत्र से वकार को आकार, "इवर्णो यमसवर्णे न च परो लोप्यः" (११२।८) से इकार को यकार, "समानः सवर्णे
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy