________________
१५९
नामचतुष्टयाप्याये .प्रमो धातुपादः [दु० वृ०]
ऋदन्तस्य लिङ्गस्य 'अर्' भवति ङौ परे । पितरि, मातरि । योगविभागात् - 'पितरस्तर्पयामास' ||१४५।
[दु० टी०]
अर औ। ऋदन्तस्य लिङ्गस्य ऋत एवार् भवति । कथं गम्यतेऽनेकवर्णत्वात् सर्वस्य भवितुमर्हति यस्माद् बहुव्रीहिणा समुदाय उच्यते । नहि लम्बकर्णः स्फोटयितव्यः' इत्युक्ते कर्णमात्रस्य स्फोटनमवसीयते । अन्तग्रहणमन्तरेण एतत् प्रतिपत्तुं शक्यते यस्मान्निर्दिश्यमानानामादेशिनामादेशा इति ।नन्वस्मिन्नपि पक्षे 'ऋ' इत्युक्ते ऋदन्तस्येति प्रतीयते 'येन विधिस्तदन्तस्य' (कात० प० ३) इति विज्ञानात् । न च कर्तृप्रभृतयोऽत्र निर्दिष्टाः, किं तर्हि समासगम्या इति । अन्तग्रहणेऽपि सति ऋकार एव श्रुतत्वान्निर्दिष्टो वेदितव्यः । यथा भग्नजयस्यास्थिसन्धानाय लेपः कर्तव्य इत्युक्ते न सर्वाङ्गलेपः क्रियते, अपि तु जङ्घायामेव । तथा "ऋदन्तस्येरगुणे स्वरादी" (३।५।४३) इवर्णोवर्णान्तस्येति शेषात् कर्तरीति न ज्ञापकमुच्यते । कर्मधारयेणापि निर्वोढुं शक्यते, सुखप्रतिपत्तिकृतप्रतिज्ञोऽयं भगवानिति ।। १४५।
[वि० प०]
अर् झै। यद्यपि ऋदन्तो यस्यासौ ऋदन्त इति बहुव्रीहिणा समुदाय उच्यते । अरादेशश्चानेकवर्णस्तथापि श्रुतत्वादन्तस्य ऋकारस्यैव भवति न समुदायस्य, तस्याश्रुतत्वात् । न खल्वत्र पितृप्रभृतयः श्रुताः किन्तर्हि समासगम्या इति "कर्तरि च" (२।४।३३) इति निर्देशाद् वा ।योगविभागादिति ।अर् इत्येकयोगः, सामान्येनारादेशार्थः । ततो छाविति द्वितीयः । पूर्वेणैव सिद्धे पुनर्विधानं पूर्वविधेर्लक्ष्यानुरोधार्थम् । तेन शस्येव निमित्ते स्यात् । 'पितरस्तर्पयामास' इति । 'तृप प्रीणनें' (९।२६८) । “हेताविन्" (३।२।९, १०)। परोक्षाया अट । "चकास्कास्०" (३।२।१७) इत्यादिना
आम्प्रत्ययः । कारितस्य गुणः । “असभुवौ च परस्मै" (३।२।२३) इति असनुप्रयोगः, द्विवचनम् । “अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घः ।। १४५।
[क० च०]
अर झै। कर्तरीति निर्देशाद् वेति पक्षान्तरोपन्यासः शस्येव निमित्ते स्यादिति । ननु 'हे कर्तः कुलम्' इत्यत्र कथम् अरादेशः नपुंसके घुट्त्वाभावेन "घुटि च"