SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये १ पादे ४ आह्निकम् । ७३ च पाठायणौ प्राप्तौ तत्र यवेति नियम्यते । अनागिरसे तु द्वावपि स्तः । वातण्डः । वातण्ड्यः । लुक् स्त्रियाम् ॥ १११ ॥ वतण्डाययो लुक् स्यात् स्त्रियामाङ्गिरसे गोत्रे । शाहरवादिषु पाठगन्डीन् । वतण्डी । अनाङ्गिरसे किम् । वातण्डयायनी । लोहितादित्वात् फः । शिवायणि तु वातण्डी । क. षित्वात्ष्यङ् न । अश्वादिभ्यः फञ् ॥ ११२ ॥ अश्वादिभ्यः फ स्याद्गोत्रे । आशिरसे इति निवत्तम् । आश्वायनः । अश्व । अश्मन् श्यामेत्यादि । इह गोत्रप्रत्ययान्तात्रयः पठ्यन्ते । बैल्य । आनडुह्य । आत्रेय इति बलिर्नाम राजर्षिः । ततो वृद्धत्कोसलेति ज्यङ् । आनडुह्यशब्दो गर्गादियवन्तः । आत्रेयशब्दो ढगन्तः । ततः साम •यूनि फञ् । नहि युवानं विनापत्यप्रत्ययद्वयं लब्धुं शक्यते । शप आत्रेये । शापायनः । आत्रेयादन्यस्तु शापिः । अनृषित्वादण न । बाहादित्वाद्वा । अन्ये त्वणं प्रत्युदाहरन्ति । पुंसि जाते । पुंसीति प्रकृतिविशेषणम् । जातस्यापत्यं जातायनः । पुंसीति किम् । जाताया अपत्यं जातेयः । लिङ्गविशिष्टपरिभाषया प्राप्तः फञ् न भवति । आत्रेयभारद्वाजे । आत्रेयायणो भारद्वाजश्वेत् । अन्यत्रात इनो ण्यक्षत्रियेति लुक् । भरद्वाजात्रिये । अत्रिगोत्रजो यदा भरद्वाजगोत्रजेन स्वीक्रियते तदा फक् । भारद्वाजायनः । अन्यस्तु भारद्वाजः । बिदाघञ् । ___ भर्गात्रैर्गते ॥ ११३॥ भार्गायणः । गर्तश्चेत् । भागिरन्यः ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy