SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७२ शब्दकौस्तुभे । प्रत्याख्यानपक्षेऽपि तदन्तविधिर्लभ्यते । संकृति । अज । व्याघ्रपात् । बिदभृत् । प्राचीनयोग । पुलस्ति । वलस्ति । रेभ । अग्निवेश । शङ्ख। शरधूम । अवट । नमस् । धनञ्जय । वृक्ष । विश्वावसु । जरमाण । लोहित । संशिव । बभ्रु । मण्डु। जिगीषु । मनुतन्तु । तण्ड । वतण्ड । कपिकत । कुरुकत । अनडुह । शकल । कण्व । गोकक्ष्य । अगस्त्य । कुण्डिनी । यज्ञवल्क । अभयजात । विरोहित । वृषगण । रहगण । शण्डिल । मुद्गल । सुरस । पराशर । जातूकर्ण । मन्त्रित । अश्मरथ। शर्कराक्ष । पूतिमाष । स्थार । आरक । पिङ्गल। उलूक । देव. हू । एकल । बृहदग्नि । जमदग्नीत्यादि । मधुबभ्रोर्ब्राह्मणकौशिकयोः ॥ १०८॥ गोत्रे यञ् स्यात् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकश्चेत् । बाभ्रवोऽन्यः । बभ्रोर्गर्गादित्वात्सिद्ध कौशिक एवेति नियमार्थ वचनम् । गर्गादिपाठस्तु लोहितादिकार्यार्थः । बाभ्रव्यायणी । गण एव बभ्रुः कौशिक इति तु लाघवार्थ वक्तुं युक्तम् । कपिबोधादाङ्गिरसे ॥ १०९ ॥ काप्यः । बौध्यः । आङ्गिरसे किम् । कापेयः । इतश्चानिन इति ढक् । बौधिः । अनृषित्वादिञ् । बाहादित्वाद्वा । कपेगा. दित्वात् प्राप्ते आङ्गिरस एवेति नियमार्थ सूत्रम् । गणपाठस्तु लोहितादिकार्यार्थः । काप्यायनी । वतण्डाच ॥ ११० ॥ आङ्गिरस इत्येव । वातण्ड्यः । अस्य शिवादौ गर्गादौ च
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy