SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ शब्द कौस्तुभे । कर्मन्दकृशाश्वादिनिः ॥ २५४ ॥ आभ्यां प्रोक्ते इनिः स्यात् । कर्मन्दिनो भिक्षवः । कृशाविनो नटाः । भिक्षुनटसूत्रयोरित्येव । कार्मन्दम् । कार्शाश्वम् । तेनैकदिक् ।। २५५ ॥ १८८ सुदान्नादिणा एकदिक | सौदामनी । तसिश्च ॥ २५६ ॥ पीलुमूलतः । उरसो यच्च ॥ २५७ ॥ चात्तसिः । अणो ऽपवादः । उरसो एकदिक् उरस्यः । उरस्तः । उपज्ञाते ॥ २५८ ॥ तेनेत्येव । विनोपदेशं ज्ञातमुपज्ञातम् । पाणिनिनोपज्ञातं पाणिनीयम् । कृते ग्रन्थे ॥ २५९ ॥ तेनेत्येव । वररुचिना कृतो वाररुचो ग्रन्थः । संज्ञायाम् ॥ २६० ॥ तृतीयान्तात् कृतेऽर्थे प्रत्ययाः स्युः संज्ञायाम् । अग्रन्थार्यमिदम् । मक्षिकाभिः कृतं माक्षिकम् । गार्हुतम् । पैचिकम् । मधुनः संज्ञा एताः । कुलालादिभ्यो वुञ् ॥ २६१ ॥ तेन कृते संज्ञायामित्यनुवर्त्तते । कुलाळेन कृतं कौलालकम् । वारुडकम् |
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy