SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६४ शब्दकौस्तुभे । प्यस्ति । अश्वयुक्शतभिषजोस्तु प्रपञ्चार्थे ग्रहणम् । इह वत्सशालेति ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । नक्षत्रेभ्यो बहुलम् ॥ १८१ ॥ नक्षत्रेभ्यः परस्य जाते प्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः । चित्रारेवती रोहिणीभ्यः स्त्रियामुपसंख्यानमित्येतत्तु स्त्रियां लुगेव यथा स्यादित्येतदर्थं न तु स्त्रियामेव लुगर्थम् । वाग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणादेव लुग्व्यवस्थायां सिद्धायां बहुलग्रहणं कचिदन्यदेवेत्यर्थम् । तेन टानौ वक्तव्यावित्यादि सिद्धम् । कृतलब्धक्रीतकुशलाः ॥ १८२ ॥ तत्रेत्येव । स्रुम्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः । राष्ट्रियः । यद्यपि कृतक्रीतत्वे जातलब्धत्वयोर्व्याप्ये तथापि पृथगुपादानं कृतत्वप्रकारकेऽपि बोधे शैषिकाः साधका इति बोधयितुम् । अत एव जाते लुग्भाजामपि कृते लुङ् नेत्यवधेयम् । प्रायभवः ॥ १८३ ॥ तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवतीति स्रौघ्नः । न च तत्र भव इत्यनेन गतार्थता भवमायभवयोर्लब्धक्रीतयोरिवाविशिष्टत्वविशिष्टत्वाभ्यां भेदात् । उपजानूपकर्णोपनीवेष्ठक् ॥ १८४ ॥ औपजानुकः । औपकर्णिकः । औपनीविकः । उपजान्वादयः सामीप्येऽव्ययीभावः । समाहारद्वन्द्वात्सौत्र पुलिङ्ग निर्देशः । सम्भूते ॥ १८५ ॥ यत्रेत्येव । स्रुने सम्भवति स्रौघ्नः । इदानीं बुने स
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy