SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ३ पादे १ आह्निकम् । १६१ नानि कृतलब्धक्रीतकुशला इत्यादीनि स्पष्टत्त्वार्थान्येवेति । प्रावृषष्ठप् ॥ १७ ॥ एण्यस्यापवादः। पित्वादनुदात्तः। प्राषि जातः प्रावृषिकः । संज्ञायां शरदो वुञ् ॥ १७१ ॥ ऋत्वणोऽपवादः । शारदकाः । दर्भविशेषाणां मुद्गविशेषाणां च । संज्ञायां किम् । शारदं सस्यम् । केचित्संज्ञायामित्येतत्कृतलब्धेत्येतत्पर्यन्तमनुवर्तयतीति वृत्तिकारः । पूर्वाह्नापराह्ना मूलप्रदोषावस्कराद् वुन् ॥ १७२ ॥ पूर्वाह्नकः । अपरान्हकः । विभाषा पूर्वाह्नापरालाभ्यामित्यस्यापवादः । आर्द्रकः । मूलकः । नक्षत्राणोऽपवादः । प्रदोषकः । निशाप्रदोषाभ्याश्चेत्यस्यापवादः । अवस्करकः। औत्सनिकस्याणोऽपवादः । असंज्ञायां तु यथामाप्तं ठबादय एवेत्येके । पथः पन्थ च ।। १७३ ॥ पथि जातः पन्थकः । अमावास्याया वा ॥ १७४ ॥ सन्धिवेलाधणोऽपवादः । अमावास्यकः । आमावास्यः । अमावस्यदन्यतरस्यामिति सूत्रेणामापूर्वावसेर्ण्यति वृद्धौ पक्षे इस्वो निपात्यते । तेन हस्वपक्षे एकदेशविकृतस्या. नन्यत्वादण्वुनौ स्त एव । आमावास्यः । अमावस्यकः । ये तु सन्धिवेलादिष्विह सूत्रे च हस्वोपधमधीयते तेषां दो?पधान स्यात् । विकृत्या प्रकृतेरग्रहणादिति न्यासकार: हरदत्तोऽप्येवम् । अकृतद्देदृद्धिप्रकृतिभूतस्येदं ग्रहणमित्या. श्रित्य इस्वपाठोऽपि समर्थयितुं शक्यते । शब्द. तृतीय. 11
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy