SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये २ पादे १ आह्निकम् । १२५ छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६६ ॥ मण्डूकप्लुत्या प्रोक्तादित्यनुत्तं छन्दोब्राह्मणसामानाधि. करण्याजसन्तं विपरिणम्यते । छन्दांसि ब्राह्मणानि च भोक्तप्रत्ययान्तानि तद्विषयाण स्युः अध्येतवेदितप्रत्ययं विना न प्रयोज्यानि । यथा मपं विना व्यन्तं न प्रयुज्यते तथेत्यर्थः । अत एव तन्त्रेणार्थद्वयं विगृह्यते कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः। तस्य कठचरकाल्लुक् ततोऽध्येतर्यण् तस्य प्रोक्ताल्लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थे औत्सर्गिकोऽण् । शेषं यथायोगं प्राग्वत् । मौदाः । पैप्पलादाः । अर्चाभो वैशम्पायनान्तेवासी तस्माणिनिः। आर्चाभिनः वाजसनेयशब्दः शौनकादिः। वाजसनेयिनः । ब्राह्मणानि । ताण्ड्येन मोक्तमधीयते ताण्डिनः । आपत्यस्येति यलोपः । भाल्ल. विशब्द इअन्तः शाव्यशब्दागर्गादियअन्तानियोश्चेति फक् । ऐतरेयशब्दः शुभ्रादिढगन्तः । तेभ्यः पुराणमोक्तष्विति णिनिः । भाल्लविनः । शाट्यायनिनः । ऐतरोयणः । छन्दोग्रहणादेव सिद्ध ब्राह्मणग्रहणं तद्विशेषप्रतिपत्त्यर्थम् । तेन पुराणप्रोक्तानामेव तद्विषयता। नेह । याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्कानि । कण्वादिभ्यो गोत्र इत्यण । आपत्येति यलोपः । सुतभादौत्सर्गिकोऽण् । सौतभानि । याज्ञवल्क्यादिभ्यः प्रतिषेध इति प्रतिषेधं पठन्ति इह चकारोऽनुक्तसमुच्चयार्थः । कल्पे । काश्यपिनः । कौशिकिनः । काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । सूत्रे पाराशरिणो भिक्षवः । शैला. लिनो नटाः। पाराशर्यशिलालिभ्यामिति णिनिः । कर्मन्दिनः । कुशाश्विनः । कर्मन्दकृशाश्वादिनिः । एतच्च सर्वमिह सूत्रे न्या.
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy