SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभे । णस्य रायस्यापवादः । शेषेभ्यस्त्वणः । धौश्च पृथिवी च द्यावापृथिव्यौ । दिवो द्यावा दिवसश्च पृथिव्यामिति द्यावादेशः । ते देवते अस्य द्यावापृथिवीयम् । द्यावापृथिव्यम् । शु. नासीरीयम् । शुनासीयम् । शुनश्च सीरश्चेति द्वन्द्वः । शुनो वायुः सीर आदित्य इति वृत्तिकाराः । अन्ये त्वेकमेव शुनामीरमिन्द्रस्य गुणमाहुः । तथा चाश्वलायनः। इन्द्रो चाशुनासीर इति । मन्त्रलिङ्गं च भवति इन्द्रं शुनासीरमस्मिन्यज्ञे हवामह इति । मरुत्वतीयम् । मरुत्वत्यम् । अग्नीषोमीयम् । अग्नीपोम्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । वेश्मभूर्वास्तुरस्त्रियामित्यमरः । वास्तोः पतिर्वास्तोष्पतिः अत एव निपातनासाधुः । गृहमेधीयम् । गृहमेधशब्दमकारान्तं बचा अधीयते । मरुद्भ्यो गृहमेधेभ्य इत्याश्वलायनः । गृहमेधास अ. गतेति मन्तति मन्त्रलिङ्गं च । तैत्तिरीयके तु मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदवमिति पठ्यते । तत्रासौ नकारान्तः । मेधृ सङ्गमे इत्यस्माणिनिः । केचित्तु इकारान्तमाहुः । स्त्रे त्वकारान्तादेव प्रत्ययविधानं निर्विवादम् । अग्नेढक् ॥३३॥ आग्नेयम् । सर्वत्राग्निकलिभ्यामिति कलेढ गित्यत्रोक्तम् । __ कालेभ्यो भववत् ॥ ३४ ॥ कालाभिनि प्रकरणेन भवे प्रत्यया वक्ष्यन्ते ते सास्यदेवतेत्यस्मिन् विपयेऽनेन मूत्रेणातिदिश्यन्ते । वत्करणं सर्वमादृश्यार्थम् । तेन यस्माद्यो विहितस्ततः स एव भवनि । मासिकम् । प्रापेरायम् । वत्करणं किम् । असति त. स्मिन् कालेभ्यो भवे ये उक्तास्ते यतः कुतश्चिदपि देवतार्थे
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy