________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् ।
तया वा द्वित्वप्रयोजकत्वमाश्रीयते न तु साक्षादेवेत्याग्रहः, लक्ष्यानुरोधात् । किञ्च सूत्रे निमित्तशब्दो नास्त्येव । किन्तु लक्षणया वा द्विरु व्यतेऽस्मिन्निति द्विर्वचनमिति व्युत्पत्त्या वा द्विर्वचनमस्त्यस्मिन्निति अर्शआद्यचा वा द्विर्वचननिमित्तं लब्धव्यम् । तच्च प्रकारत्रयं साक्षा त्परम्परासाधारणे प्रयोजकेऽपि सुवचम् । एतच्च' ठस्येकः " (पा०सू०. ७-३-५०) इति सूत्रे कैयटे स्पष्टम् । अत एव ऊर्णोतेः सनि" सनीवन्त " ( पा०सू०७-२-४९) इतीट्पक्षे "विभाषोर्णोः” (पा०सू०१-२-३ ) इति विविरहे 'ऊर्णुनविषति' इति सिद्धम्, सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन् गुणावदेशयोर्द्वित्वे कर्त्तव्ये स्थानिवद्भा वात् । तदुक्तम्—तद्भावभावितामात्रेणेह निमित्तत्वमिति । वस्तुतस्तु द्विर्वचनाक्षिप्तः प्रत्ययोऽचीत्यनेन विशेष्यते । परस्मिन्नित्यनुवर्त्तते । 'अमीषां मध्ये देवदत्तात्परमानय' इत्युक्ते यथा सजातीयेन मनुष्यान्तरेणाव्यवहितः पर आनीयते, तथेहापि प्रत्ययान्तरेणाव्यवहितः परो - गृह्यते । तेन द्वित्वनिमित्ते अजादौ प्रत्यये प्रत्ययान्तरेणाव्यवहिते परे सति योऽजादेशः स स्थानिवत्स्यादिति सुत्रार्थः । एवञ्च'चक्रतुः, इत्यादौ न काऽप्यनुपपत्तिः । वक्ष्यमाणज्ञापकबलेन णिचा व्यवहिते प्रवृत्तावपि 'दिदेवनीयिषति' इत्यादावने कप्रत्ययव्यवधानादप्रवृत्तिः । 'अपीप्यत्' इत्यत्र वर्णव्यवधानेऽपि प्रत्ययान्तराभावात्प्रवृत्तिः । अनु· वादे परिभाषानुपस्थानेऽपि निर्दिष्टपरिभाषाकर्त्तव्यस्य निर्वाहश्चेति बोध्यम् । अत एवेह परस्मिन्नित्यनुवर्तते इति न्यासकारः । तथा द्विर्वचनेनेह प्रत्ययाक्षेपं वदन् णिज्भिन्नेन व्यवहिते ज्ञापकस्याप्रवृत्तिं बुवकैयटोप्येतदभिप्रैति । 'ऊर्णुनविषति' इत्यादिसिद्धये तु तद्भावभावि तामात्रेण निमित्ततोति स्वीक्रियते एवेत्यवधेयम् ।
२४७
.
नन्वेवम् 'अरिरिषति' इति न सिद्ध्येत्, ऋधातोः सनि "स्मिपूड्रञ्जवशां सनि" (पा०सु०७ - २ - ७४ ) इतीटि कृते इस शब्दनिमित्तकस्य गुणस्य स्थानिवद्भावे" अजादेर्द्वितीयस्य " (पा०सू०६ - १-२ ) इतीसो द्वित्वप्रसङ्गात् । इष्यते तु रिस्शब्दस्य द्वित्वम् । अत्रांच्यते । न हि कार्यों निमित्ततः यISS श्रीयते इति "दीधीवेवीटाम्” (पा०सु०१-१-६) इत्यत्रोपपादितत्वानेह इस शब्दो निमित्तम् । अतो न स्थानिवद्भावः । न चैवं सन्नन्तस्य कार्यित्वाद् 'ऊर्णुनविषति' इत्यपि न स्यादिति वाच्यम्, मत्वर्थीयेने.. निना कार्यमनुभवत एव कार्यित्वलाभात् । तत्र तु द्वितीय एकाच् द्वित्वरूपं कार्यमनुभवति न तु सन् । 'अरिरिषति' इत्यत्र तु रिस्शब्द स्यैव कार्यभाक्त्वमिति वैषम्यात् । नन्वेवमचीत्यस्य 'जेत्रीयते, देष्मी