________________
२४६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिकेणस्य प्रयोजनाभावस्तूक्त एव । ततश्च "तस्य दोषः संयोगादिलोपल. त्वयोः' इत्येव वाच्यम् ।
वस्तुतस्तु तदपि न वाच्यम "पूर्वत्रासिद्धे च" इति ह्यसिद्धत्वा. देव न्यायसिद्धमित्युक्तम् । तच्चासिद्धत्वमनित्यम् , "अधुना" (पा० सू०५-३-१७) इतिवद् "अमुना" इति वाच्ये "नमुने" (पा०सू०८-२-३) इत्युक्तेर्नेति योगविभागात् , नुटीति वाच्ये "नामि" (पा०सू०६-४-३) इतिलिङ्गाच्च । 'अनश्वः' इत्यादेरङ्गस्येत्यनेन व्यावृत्तौ सत्यामपि 'अ. (१)क्षण्वन्तः' इत्यादौ हि दीर्घ वारयितुं हि "नामि" (पासू०६-४-३) इत्युक्तम् । “रुधादिभ्यः श्नम्" (पा०सू०३-१-७८) "श्नान्नलोपः” (पा० सू०६-४-२३) इति सूत्रद्वये भाज्यकैयटाद्यालोचनेनारम्भसामोत्स. निपातपरिभाषाया इवासिद्धत्वस्याप्यविशेषाद्वाधे प्राप्ते "नामि' इत्युक्तिरिति चेत् ? न, कृति तुग्ग्रहणादिना सन्निपातपरिभाषाया अनि त्यत्वज्ञापनात्सामर्थ्यांद्वाध इति पक्षेऽप्यक्षण्वन्त इत्यादावुभयबाधे गौरवाच । तस्मादनित्यताज्ञापनार्थमेव तत् । तेन सिद्धकाण्डमपि संगृहीतं भवति । एतेन 'रामः' 'रामभ्यः' इत्यादौ रुत्वस्यासिद्धत्वाद्रो. रुकारस्येत्संशालोपो कथं स्यातामित्येतदपि समाहितम् । “प्रत्ययः" (पासु०३-१-१) “परश्च" (पा०सु०३-१-२) इत्यादिलिङ्गाश्च । यत्वनु. नासिकनिर्देशसामादित्संज्ञालोपौ प्रत्यसिद्धत्वं नेति । तन्न, 'तरुमू. लम्' इत्यादौ "हशि च" (पासू०६-१-११४) इत्यस्य व्यावृत्तये "अ. तोरो" (पा०९०६-१-१) इत्यत्र सानुनासिकस्यैव निर्देशाम्युपगमेन चारितार्थ्यात । 'रामः' इत्यादावपि सानुनासिकश्रवणस्थापाद्यमान तया चारितार्थ्यस्य स्पष्टत्वादिति दिक् । तेन संयोगादिलोपलत्व. योरसिद्धताविरहात्स्थानिवत्वं भविष्यतीति सकलेष्टसिद्धिः।
द्विवचनेऽचि (पासु०१-१-५९) । रूपातिदेशोऽयम्। द्वित्वानिमित्ते. ऽचि योऽनादेशः स स्थानिवपं लभते द्वित्वे कर्तव्ये । चक्रतुः, चक्रुः । द्वित्वनिमित्तत्वेनाविशेषणादिह न-दुधूषति, सुस्यूषति । न हयूद द्वित्वनिमित्तम् । नन्वेवं'चक्रतुः" इति यणोऽपि स्थानिवद्भावो न स्यात, अतुसो द्वित्वनिमित्तत्वेऽथकारस्यातयात्वात् । सूत्रं तु चक्रे इत्यादी सावकाशमिति ? सत्यम, इह निमित्तशब्देन साक्षाद्वा समुदायघटक.
(१) मक्षिशब्दान्मतुए । “अस्थिदघिसक्थ्यणामनकुदात्तः" (पा०९०७-१-७५) "छन्दस्यपि दृश्यते" (पा०स०७-१-७६) इत्यन. हादेशः । नुटोऽसिद्धत्वात्पूर्व नलोपे भूतपूर्वगत्या अन्तस्वमादाय "मनो उद(पा०म०८-२-१६)इति नुटि णत्वे तव सिध्यतीति बोध्यम् ।