SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] दचिराख्यया व्याख्यया समेतः । १८१ ९० धर्मोपमेयलोपेऽन्या यथा - 'यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे ।" अत्र 'क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा, साधारणधर्मः शुक्लता, च लुप्तौ । ९१ त्रिलोपे च समासगा ॥ ७५ ॥ यथा-'राजते मृगलोचना ॥' अत्र 'मृग (स्य) लोचने इव चञ्चले लोचने यस्या' इति समासे उपमाप्रतिपादक- साधारण. धर्मोपमानानां लोपः । ९२ तेनोपमाया भेदाः स्युः सप्तविंशतिसङ्ख्यकाः । धर्मोपमेयतां निर्दिशति - ९० अन्योपमेयलुप्तातो भिनेति भावः । धम्मोपमेयलोपे । 'लुप्तोपमे 'ति शेषः । इयमपि क्यच्येवेति 'क्यची'ति पूर्वतोऽनुवर्त्तनीयम् । उदाहरति यथा भवतः । यशसि । प्रसरति सर्वतो व्याप्नुवति सतीति भावः । सर्वे क्षौरोदातिरिक्ताः । सागराः । क्षीरोदयन्ति क्षीरोदमिवात्मानमाचरन्ति । द्विषतामपयशसि पुनर्यमुनीयन्ति स्वरापगावाहाः ॥' इति शेषः । आर्यागीतिश्छन्दः । उदाहरणं विशदीकृत्य निर्दिशति - अत्रोदाहृते पये इत्यर्थः । ' क्षीरोदं क्षीरसमुद्रम् । इव । आचरन्ति ।' इत्ये‘वम्भूते विवक्षितेऽर्थे' इति शेषः । उपमेय उपमेयभूतः । आत्मा । साधारणधर्मः । शुक्लता । च । 'इति ताविति शेषः । लुप्तौ । इदं बोध्यम्- 'सहस्रायुधीयती 'त्यत्रेव ' क्षीरोदीयन्तीत्यत्र क्यच आचारार्थे सद्भावेऽपि न पूर्वत्र धर्मस्यापि लोप:, सहस्रायुधशब्दस्य सहस्रायुधविशिष्टवाचकतापरत्वेन सहस्रायुधत्वस्य च विवक्षितस्य धर्मस्य साक्षादुपादानात् । परत्र तु क्षीरोदत्वस्याविवक्षितत्वात् शुकत्वमात्रस्य धर्मस्य विवक्षितत्वात्तस्य च नोपादानम् । इति । धर्मवाचकोपमानलुप्तां निर्दिशति - ९१ त्रिलोपे त्रयाणां धर्मवाचकोपमानानां लोपखस्मिन् सतीत्यर्थः । च । समा' सगा । 'लुप्तोपमे 'ति शेषः ॥७५॥ उदाहरति-यथा- 'मृगलोचना । मृगलोचने इव लोचने यस्यास्तादृशी । 'गजराजगतिश्चन्द्रसुषमा भुवनेश्वरी । मालतीसुरभिः काऽपि' इति शेषः । राजते ॥' अयम्भावः - ' मृगलोचना' इत्यत्र मृगशब्देनैव यदि लक्षणया तल्लोचने विवक्षयित्वा 'मृग इव लोचने यस्याः सेति । समासो विधीयेत तर्हि, नेदमुदाहरणं धर्म्मवाचकोपमानलुप्तायाः मृगस्यैवोपमानभूतत्वात् तस्य च लोपाप्रसक्तेः । यदा तु - 'मृगलोचने इव चञ्चले लोचने यस्याः से'ति, तदा 'अनेकमन्यपदार्थे ।' २।३।२४ इति सूत्रस्य भाष्यस्थेन 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्च ।' इति वार्त्तिकेन 'मृगलोचने' इति उपमानवाचकस्य 'लोचने' इत्यनेन बहुव्रीहौ मृगपदोत्तरपदभूतस्य 'लोचने' इत्यस्य लोपे उपमेयभूतस्य द्वितीयस्य 'लोचने' इत्येस्य चावशेषादिदमुदाहरणम् । तथा च'मृगलोचने' इत्युत्तरपदभूतस्य 'लोचने' इत्युपमानस्य 'इवे'ति औपम्यवाचकस्य चञ्चलत्वरूपस्य साधारणधर्मस्यानुपादान. मिति तेषां त्रयाणां लोपे समासगेयम् । न च लोचनपदस्यैवोपमानवाचकत्वेन मृगलोचनशब्दस्योपमानपूर्वपदकत्वं न स्या दिति वाच्यम्, अवयवधर्मेण समुदायस्य व्यपदेशात् मृगलोचनशब्दस्यैवोपमानपूर्वपदकत्वात् । यद्यपि एवं मृगस्योपमानत्वस्वीकारे मृगपदस्य लोपादुपादानाल्लोपः प्राप्तः, अथाऽपि तथयोपमानत्वावगमकस्य लोचनशब्दस्य लोपादुपमानस्यापि लोपः । इति बोध्यम् । एवम् - गजराजगतिरित्यादावपि इयं निर्वाधा, गजराजगतिरिव मत्ता गतिर्यस्या इत्यु. पमानवाचकधर्माणां लोपात् । उपमानलोप आनुशासनिको वाचकसाधारणधर्म्मयोर्लोपस्तु ऐच्छिकः । इति । एवं भेदान्निर्दिश्य तत्साकल्यं निर्दिशति - ९२ तेनेत्यादिना । ९२ तेन निर्दिष्टक्रमेण । उपमायाः । सप्तविंशतिसङ्ख्यकाः सप्तविंशतिं संख्यान्तीति सप्तविंशतिसङ्ख्यास्त वेति तथोक्ताः । 'आश्चोपसर्गे' । ३ । १ । १३६ इति कः । 'न सामिवचने । ५ । ४ । ५ इति ज्ञापकात् स्वार्थे कन् । भेदाः । स्युः ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy