SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणः । [दशमः न चेहोपमेयस्यापि लोपः, 'निनदन्' इत्यनेनैव तस्य निर्देशात् । ८९ उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि । यथा'अरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥९३॥' ___ इत्यत्र 'सहस्रायुधमिवारमानमाचरतीति वाक्ये उपमेयस्यात्मनो लोपः। न चेह औपम्यघाचकलोपः, उक्तादेव न्यायात । अत्र केचिदाहः-'सहस्त्रायुधेन सह वर्तत इति सहस्त्रायुधः चरतीति वाक्यात् सपहस्रायुधीयतीति पदसिद्धी विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोपः। इति, तन्न विचारसहम् कतरि क्यचोऽनुशासनविरुद्धत्वात् । अयम्भाव:-अत्र मनोहरत्वं विधुमुखयोः साधारणो धर्मः, स चोपात्त एव नेति तस्य लोपसदृशत्वाल्लोपः, तत्प्रतिपादकतयोपस्थितस्यापि किपः 'वेरपृक्तस्य ।' ६।१।६७ इति सर्वांपहारी लोपः । तस्मात् स्फुटमनयोर्लोपाद्धर्मवाचकलुप्तास्वम् । इति। परमतेन समाधत्ते-केचित् । तु । अत्र 'विधवति' इत्यत्र । अपि । प्रत्ययलोपम् । आहुः । 'मुखान्जम्' इति । च। समासगा। एषामयमभिप्राय:-अत्र विष्प्रत्ययः एव तुल्याचाररूपसाधारणवाचकः, तस्य च 'वेरपृ. क्तस्य ।' ६।१।६७ इति सूत्रेण नित्यं लोपः, तेनानुषङ्गिको धर्मलोपः, नतु ऐच्छिकः ।' इति । केचिदि. त्यनेनास्वारस्योद्भावनम् । 'विधवति विभया वदन' मित्युक्तौ धर्मोपादानस्यासङ्गत्त्यापत्तः । अत एवाहुः-यद्यपि आचाराथै विपि धर्मलोपो न सम्भवति, तथाऽपि 'वेरपृक्तस्य ।।१।६७ इति सूत्रेण लोपातू धर्मलोपस्यापि । वस्तुतस्तु-अत्रैच्छिको धर्मलोपः।' इति। उपमेयलुप्तां निर्दिशति-८९ उपमेयस्येत्यादिना । ८९ उपमेयस्य । लोपे । तु । 'लुप्तोपमे'ति शेषः। क्यचि । प्रत्यये । एका । स्यात् । क्यच्प्रत्ययगतोपमेयलुप्तकविधैवेति भावः । उदाहरति-यथा-'अरातीत्यादिना । - 'अरातिविक्रमालोकविकस्वरविलोचनोऽरातीनां शत्रूणां विक्रमस्तस्यालोको दर्शनं तेन विकस्वरे ( मदप्रेऽपि शत्रवो विक्रमं दर्शयन्तीति साश्चर्यमुद्रे) विलोचने नेत्रे यस्य तथोक्तः । कृपाणोदग्रदोर्दण्डः पाणन करवालम उदग्रो भयावहो दोर्दण्डो बाहुदण्डो यस्य तादृशः । सः । सहस्त्रायुधीयति सहस्रायुधः कार्तवीर्य्यस्तमिवात्मानमाचरनीति तथा । यथा तं दुर्जयं मन्यते तथाऽऽत्मानमपीति भावः । तथाऽभिमानप्रयोजनं तु निःशवं शत्रुषु प्रवि. श्यैकेनैव कृपाणेनायुधसहस्र सम्पाद्यस्य शत्रूत्सारणस्य सम्पादनम् । अत एवात्र वीररसप्रकर्ष इति विभाव्यम्॥९३॥' उदाहरणसङ्गतये उपमानलोपं दर्शयति-इत्यवेत्यादिना । स्पष्टम् । अयम्भावः-'उपमानादाचारे ।'३।१।१०इत्यनेनोपमानवाचकात् 'सहस्रायुध मिति पदात् आचारार्थे क्यच् । आचारोऽत्र दुर्जयत्वरूपः । तथा च-सहस्रायुधमिवात्मानमाचरतीत्यर्थात् अत्रात्मोपमेयः,तस्य चाप्रयोग इति लोपः। यद्यपि-'स' इति पदेन साक्षादुपात्तः कर्लोपमेय एवाथापि कर्मत्वेन विवक्षित आत्मोपमेयः, तस्य च कर्मत्वेनानुपादानालोप इति । ननु प्रकाशकारेणात्र कथं धर्मवाचकलुप्तात्वमिति चेत् ! मैवं शङ्कीरित्याह-इह । औपम्यवाचकलोपः । च । न । कुत इत्याह-उक्तात । एव । न्यायात । उक्तन्यायश्च क्यजादेः सादृश्यबोधकत्वव्यवस्थापनात्मैव । . अत्र परमतं निराकरोति-अत्र 'अराति' इत्युदाहृते पद्ये । केचित् । आहुः । सहस्त्रायुधेन । सह । वर्तते । इति । ससहस्रायुधः 'सहस्य सः सज्ञायाम् ।'६।३।७८ इति सादेशः । स सहस्रायुध इत्यर्थः। इव । आचरति । इति वाक्यातू । 'स सहस्रायुधी'ति पदसिद्धौ विशेष्यस्या शब्दानुपात्तत्वात साक्षादनुपादानात् । इह । उपमे यलोपः। विशेष्यस्येवोपमेयभूतत्वादिति भावः। इति । तत नाविचारसहम् । कर्तरि । क्यचः । अनुशासनविरुद्धत्वात् । अनुशासनं हि-'उपमानादाचारे ।' ३।१।१० इति, तच्च कर्मण्येव क्यचमनुशास्ते इति फुटं विरुद्धमिति भावः । यथा वा मम-'सहस्रनयनीयन्त्यनिमिषीयन्ति च प्रभो !.अशेषादभुतकणिं त्वां विलोक्य तदा तदा ॥' इति ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy