SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ रुचिराख्यया व्याख्यया समेतः । ३६७ उपायापायशङ्काभ्यां प्रात्याशा प्राप्तिसम्भवः ॥ ३६८ ॥ यथा रत्नावल्यां तृतीयेऽङ्के । वेषपरिवर्तनाऽभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कथा चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्याशा । परिच्छेदः ] एवमन्यत्र । ३६८ अपायाभावतः प्राप्तिर्नियताप्तिश्च निश्चिता । अपायाभावान्निर्धारितैकान्तफलप्राप्तिर्नियताप्तिः । यथा रात्रावल्यां राजा देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्यामीति देवीलक्षणापायस्य प्रसादमेन निवारणान्नियत फलप्राप्तिः सूचिता । ३६९ साऽवस्था फलयोगः स्याद्यः समग्रफलोदयः ॥ ३६९ ॥ यथा रत्नावल्यां- रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः । एवमन्यत्र । ३७० यथासङ्ख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः । ४५५ पञ्चधैवेतिवृत्तस्य भागाः स्युः पश्च सन्धयः ॥ ३७० ॥ प्राप्त्याशां लक्षयति- ३६७ उपायेत्यादिना । ३६७ उपायापायशङ्काभ्यामुपाय उद्यमश्चापायशङ्का विघ्नशङ्का च ताभ्याम् । सहार्थेयं तृतीया । प्राप्तिसम्भवः । प्राप्त्याशा ॥ ३६८ ॥ उदाहरति-यथेत्यादिना । यथा । रनावल्याम् । तृतीयेऽङ्के । वेशपरिवर्त्तनाभिसरणादेस्तद्रूपादित्यर्थः । सङ्गमोपाया 'द्वत्सराजस्ये 'ति शेषः । वासवदत्तालक्षणापायशङ्कया वासवदत्ता लक्षणं खरूपं यस्य तादृशो योऽपायो विघ्नस्तस्य शङ्का तया । च । अनिर्धारितैकान्त सङ्गमरूपफलप्राभिरनिश्चितोऽसावेकान्तसङ्गमः सयस्य तद्रूपं फलं यस्य तस्य प्राप्तिः । प्राप्त्याशा । एवम् अन्यत्राभिज्ञानशाकुन्तलादाविति भावः । नियताप्तिं लक्षयति- ३६८ अपायाभावत इत्यादिना । ३६८ अपायाभावतो विघ्नराहित्येनेत्यर्थः । च । निश्चिता । नतु सम्भावितेत्यर्थः । प्राप्तिः । नियताप्तिः । तदेव विवृणोति - अपायाभावादित्यादिना । स्पष्टम् । उदाहरति-यथेत्यादिना । यथा । रत्नावल्यां ‘तृतीयेऽङ्के' इति शेषः । राजा वत्सराजः । ' आहे'ति शेषः । देवीप्रसादनं देव्याः महाराज्ञीवासवदत्तायाः प्रसादनं कोपापनयपुरःसरमनुकूलीकरणं तत् । मुक्त्वा परित्यज्य । अत्रास्मिन् सागरिकासङ्गमे इति यावत् । अन्यम् | उपायम् । न । पश्यामि । इति । स्पष्टमन्यत् । फलागमं लक्षयति- ३६९ सेत्यादिना । ३७० यः । समग्रफलोदयः समस्तफलानां सिद्धतया भानम् । सा । अत्र - 'सर्वादीनां पर्यायेण उद्देश्यविधेय 'लिङ्गभाक्त्वम्' । इति स्त्रीलिङ्गत्वेन निर्देश इति बोध्यम् । फलयोगः फलस्य योग आगमः । अवस्था कार्याङ्गम् | स्यात् । 'फलागम इति प्रोको यः समग्रफलोदयः । इति पाठः ॥ ३६८ ॥ उदाहरति यथेत्यादिना । यथा । रत्नावल्यां । 'चतुर्थेऽङ्के' इति शेषः । अन्य स्पष्टम् । उदाहरणविषये आह - एवमन्यत्र महावीरचरितादौ सीतादिलाभपूर्वकं रावणवधा दिरित्यूह्यम् । अथ सन्धि लक्षयितुमवतरणिकामुपस्थापयति- ३७० यथासङ्ख्यमित्यादिना । ३७० आभिरुक्तखरूपाभिः। पञ्चभिः। अवस्थाभिरङ्गैः समम् । योगात् समन्वयात् । यथासङ्ख्यं यथोद्देशम् ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy