SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४५४ [ षष्ठः साहित्यदर्पणः। ३६४ अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिनः ॥ ३६६ ॥ आरम्भयत्नपर्याशानियताप्तिफलागमाः। ३६५ भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये ॥ ३६७ ॥ यथा-रत्नावल्यां रत्नावल्यन्तःपुरनिवेशार्थ यौगन्धरायणस्यौत्सुक्यम् । एवं नायकनायि काऽदीनामप्यौत्सुक्यमाकरेषु बोद्धव्यम्। ___३६६ प्रयत्नस्तु फलावाप्तौ व्यापारोऽतित्वराऽऽन्वितः । यथा रत्नावल्याम्-'तहवि तस्स जणस्स अण्णो दसणोवाओ णत्ति ता जहा तहा आलिहिल एणं पेक्खिस्सं' इत्यादिना प्रतिपादितो रत्नावल्याश्चित्रलेखनादिवत्सराजसङ्गमोपायः । यथा-च महावीरचरिते समुद्रवन्धनादिः। अस्याङ्गान्याह-३६४ अवस्थेत्यादिना । ३६४ फलार्थिनः। प्रारब्धस्य कृतारम्भस्य । कार्यस्य । 'निरुक्तलक्षणस्येति शेषः ।। आरम्भयत्नपर्याशानियताप्तिफलागमाम्तदाख्याः । पश्च । अवस्थाः । 'अङ्गानि इति ज्ञेय'इति शेषः ॥ ३६६ ॥ अथारम्भादी नाह-तत्रेत्यादिना । तत्र तास्ववस्थासु मध्ये । ३६५ भवेदित्यादिना। ३६५ यन्मुख्यफलसिद्धये यस्य मुख्यं फलं तस्य सिद्धिः निष्पत्तिस्तस्यै । औत्सुक्यम् । आरम्भः तत्पदवाच्य कार्यमित्यर्थः । भवेत् ॥ ३६७ ॥ उदाहरति-यथेत्यादिना । स्पष्टम् । आकरेषु महानिबन्धेषु इत्यर्थः । यत्नं लक्षयति-३६६ प्रयत्वेत्यादिना। ३६६ फलावाप्तौ फलस्याप्तिविषये । तु । अतित्वरान्वितः। व्यापारः । प्रयवः। तभोक्तम्-'अपश्यत: फलप्राप्तिं यो व्यापारः फलं प्रति । परं चौत्सुक्यगमनं प्रयत्नः परिकीर्तितः ॥' इति । उदाहरति-यथेत्यादिना। यथा-रत्नावल्याम् । 'द्वितीयेऽङ्के' इति शेषः । 'तहबि तथापि । तस्स तस्य । जणस्स जनस्य वत्सरा. जस्य । अण्णो अन्यश्चित्रफलकाद्भिन्नः । दसणोवाओ दर्शनोपायः । णत्ति नास्ति । वा तत् । जहा यथा । तहा तथा। आलिहि आलिख्य । एणं एनम् । पेक्खिस्से प्रेक्षिष्ये । 'इदं बोध्यम् । सागरिका (फलकमवलोक्य ) ता जावदिहण कोवि आअअच्छदि, दाव आलिक्ख समप्पिदं तं अभिमदं जणं पैक्खिअ जहा समीहिदं तहा करिस्सं ।' ( सावष्टम्भमेकमना भूत्वा नाटथेन फलकं गृहीत्वा निःश्वस्य) "जइ वि मे अदिसद्धसेण वेवदि अअं अत्तित्तं अग्गहत्तो" इति पूर्वतनोऽयं पाठः । पुस्तकान्तरे तु अत्र सर्व सम्मेल्य "तह वि णत्ति अण्णो दसणोवाओ त्ति जधा तधा आलिहिअ जधा समीहिदं करइस्स" इति पाठो विहितो महानुभावः । इति । इत्यादिना । प्रतिपादितः। रत्नावल्याः सागरिकायाः । चित्रलेखनादिः प्रियतमस्य वत्सराजस्येति शेषः । वत्सराजसङ्गमोपायः। उदाहरणान्तरं दर्शयति-यथेत्यादिना स्पष्टम् । १'तथापि तस्य जनस्यान्यो दर्शनोपायो नास्तीति तद्यथा तथाऽऽलिख्यैनं प्रेक्षिष्ये' इति संस्कृतम् । २ "तया. वदिह न कोऽप्यागच्छति तावदालिख्य समर्पितं तमभिमतं जनं प्रेक्ष्य यथा समीहितं तथा करिष्ये" इति संस्कृतम् । ३॥ यद्यपि मे अतिसाध्वसेन वेपतेऽयमतिमात्रमग्रहस्तः।" इति संस्कृतम् । ४ "तथापि नास्त्यन्यो दर्शनोपाथः इति यथातथालिख्य यथा समीहितं करिष्यामि" इति संस्कृतम् ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy