________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
ननु तथापि कथमलौकिकत्वमेतेषां विभावादीनामित्युच्यते-४६ विभावनाऽऽदिव्यापारमलौकिकमुपेयुषाम् । अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ॥ ३६ ॥
आदिशब्दादनुभावनसञ्चारणे । तत्र, विभावनं रत्यादेर्विशेषेणास्वादाङ्कुरणयोग्यताssनयनम् । अनुभावनमेवम्भूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् । सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् ।
९९
परपर्ध्यायस्य तादृशाध्यवसायरूपस्य प्रतिबन्धस्य निवृत्त्या, उपहितः साधारणीकरणाख्यो व्यापारः सामाजिकस्य शकुन्तलादिर्मम दुष्यन्तादेश्चेति प्रतीतिमखण्डामेव जनयतीति भावः ॥ ३५॥
अयम्भावः- “ विभावादेः साधारणीकरणकव्यञ्जनाऽपरपर्यायव्यापारेण परत्वं ममत्वं च निवर्त्तेते । तदनु परकीयत्वं मामकीनत्वं च तिरोधीयेते तथा सति तत्तदनुभावत्वसञ्चारित्वानवगमे रसास्वादः, अन्यथा तु रसास्वाद एव न, परिच्छेदे तस्य प्रतिबन्धात् ।" इति ।
एवं ब्रह्मण इव रसस्यापि निर्विशेषत्वं प्रदर्शयितुं साधारणीकरणव्यापारेण तेषां तेषां साधारण्यमुपपाद्य लौकिकानामपि विभावादीनामलौकिकत्वसाधनोपायं निरूपयितुमुपक्रमते - नन्वित्यादिना ।
ननु । तथाऽपि विभावादीनां साधारणी करणाख्यव्यापारस्वीकारेऽपीति भावः । एतेषाम् । विभावादीनां विभावानुभावव्यभिचारिणाम् । अलौकिकत्वमेतल्लोकवैलक्षण्यम् । कथम् । 'सङ्घटते' इति शेषः । इतीति कृत्वा । उच्यते - ४६ विभावनादिव्यापारमित्यादि ।
४६ अलौकिकम् । विभावनादिव्यापारं विभावनानुभावनसञ्चारणात्मकं व्यापारमित्यर्थः । उपेयुषां प्राप्तवताम् । 'क्वसुश्च' ३।२।१०७ । इति क्वसुः ( यद्यपि छन्दस्येवैष आम्नातः, तथाऽपि प्रयोगभूयस्तया नास्य अप्रयोज्यत्वमिति बोध्यम् । ) एतेषां विभावादीनामित्यर्थः । अलौकिकत्वम् । 'सम्पद्यमान' मिति शेषः । भूषणम् । न । तु । दूषणम् । अलौकिक व्यापाराणामलौकिकत्वमेव शोभते, न पुनलौकिकत्वमिति भावः ॥ ३६ ॥
इदं बोद्धव्यम् मा भूदलौकिकालौकिकार्थसम्पत्तिः, किन्तु अलौकिकार्थसम्पत्तिर्भवत्येव; तथा च काव्यनिबद्धता - लौकिकतां गतानां विभावादीनामलौकिकार्थरूपस्य रसस्य सम्पत्ति: सभ्यानामनुभवसिद्धा स्थाने, सङ्गच्छते चैवमलौकिकयो रस विभावादिकयोरसाधारण: कार्य्यकारणभावः सम्पाद्यसम्पादकभावो वा व्यङ्ग्यव्यञ्जकभावो वाऽपि । इति ।
बोधसौकर्य्याय कारिकास्थादिपदं विवृणोति - आदिशब्दादित्यादिना ।
आदिशब्दात् 'विभावनादिव्यापार' मित्यंशभूतमादिशब्दं प्रयुज्येत्यर्थः । त्यब्लोपे पञ्चमीयम् । अनुभावनसञ्चारणे । 'गृहीते' इति शेषः । तत्र तेषु विभावनानुभावनसञ्चारणेषु मध्ये इति यावत् । विभावनं विभावकत्वम् । 'नामे 'ति शेषः । विशेषेणातिशयेनेतरापेक्षया वैलक्षण्येनेति यावत् । रत्यादेः स्थायिभावस्य सञ्चारिभावस्य चेत्यर्थः । आस्वादाङ्कुरणयोग्यताऽऽनयनमास्वादस्य चमत्कारविशेषस्याङ्कुरणमङ्कुरसदृशीभवनं सूक्ष्मरूपेणाविर्भाव इति यावत्, तस्य या योग्यता तस्या आनयनमिति तथोक्तम् । अनुभावनमनुभावकत्वं नामेत्यर्थः । एवम्भूतस्य सूक्ष्मरूपेणाविर्भूतस्याङ्कुरितस्येति यावत् । रत्यादेः 'स्थायिभावस्य व्यभिचारिभावस्य चे 'ति शेषः । समनन्तरं सूक्ष्मात्मनाऽङ्कुरणानन्तरमिति भावः । एव । रसादिरूपतया रस आदिर्येषां (भावादीनाम् ) ते एव रूपाणि येषां तानू वा रूपयन्तीति तथोक्तास्तेषां भावस्तत्ता तया तथोक्तया । भावनं सम्भावनमुद्बोधनमिति यावत् । इदं बोद्धव्यम् - यद्यपि विभावस्य व्यापारेण विभावितस्य रत्यादेः सूक्ष्मात्मनाऽऽस्वादनीयता सम्भवति, तथाऽपि वस्तुतया न रसादिरूपत्वम्, अनुभावपरिपुष्टस्यैव रसादिरूपत्वाङ्गीकारात्, अथात्र रसादिरूपतापदं सम्भविष्यद्रूपतामुपादायैवोपचरितम् । इति । सञ्चारणं सञ्चारकत्वं नामेत्यर्थः । तथाभूतस्य रसादिरूपेणाविर्भूयेवावस्थितस्य । एव । तस्य रत्यादेः स्थायिभावस्य व्यभि चारिभावस्य चेत्यर्थः । सम्यग्र रसायनुकूलतया रसादिरूपेणाविर्भावयोग्यतयेति यावत् । चारणं प्रापणं परिपोषण