SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणः। [तृतीयःरत्यादयोऽपि साधारण्येनैव प्रतीयन्ते इत्याह - ४४ साधारण्येन रत्यादिरपि तद्वत् प्रतीयते ॥ ३४ ॥ रत्यादेरपि हि आत्मगतत्वेन प्रतीतौ सभ्यानां व्रीडाऽऽतङ्कादिर्भवेत् , परगतत्वेन तु अरसताऽपातः। विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्ते इत्याह ४५ परस्य न परस्यति ममति न ममेति च । तदाऽऽस्वादे विभावादेः परिच्छेदो न विद्यते ॥ ३५ ॥ जिज्ञासूनां बोधसौकाय पूर्वकारिकायाम् 'उत्साहादी'त्यादिपदेन बोधितमप्यर्थं समुपदेष्टुं प्रतिजानीतेरत्यादय इत्यादिना । रत्यादयः 'उत्साहतो व्यतिरिक्ताः स्थायिभावाः' इति शेषः । अपि । साधारण्येन 'विभावादिव्यापारसमर्पितेने' ति शेषः । एव । प्रतीयन्ते 'सीताऽऽदिविषयिण' इति शेषः । इत्येवम् । आह-४५साधारण्येनेत्यादि । ४४ तद्धत् 'यद्वदुत्साहः समुद्रलङ्घनादिविषयक' इति शेषः । रत्यादिः। 'स्थायिभाव' इति शेषः । अपि । साधारण्येन 'विभावादिव्यापारसमर्पितेने ति शेषः । प्रतीयते । 'सीताशकुन्तलादिविषयकतयेति शेषः ॥ ३४ ॥ उक्तमेवार्थ युक्त्या समर्थयते-रत्यादेरित्यादिना। ... हि यतः । 'हि हेताववधारणे।' इत्यमरः । सभ्यानां। सहृदयतया सभायां महत्त्वं गतानामिति भावः । आत्मगतत्वेन स्वात्मनिष्ठतयेत्यर्थः । रत्यादेः। अपि । न केवलं जुगुप्साऽऽदेः' इति शेषः । प्रतीतौ प्रत्यये 'सत्या'मिति शेषः । ब्रीडाऽऽतङ्कादिः क्रीडा (लज्जा) चातङ्कः ( तापः शङ्का वा) चेत्येतावादी यस्य (शोकादेः ) स इति तथोक्तः । 'रुक्तापशङ्काखातङ्क' इत्यमरः । भवेत् । परगतत्वेन परो नायकस्तत्र गतस्तस्य भावस्तत्त्वं तेन । मायकनिष्टतयेति भावः । ‘रत्यादेः प्रतीता' विति पूर्वतोऽन्वेति । तु पुनः । अरसताऽऽपातः अरसताया नीरससाया अनास्वादनीयताया इति यावत्, आपात इति तथोक्तः ‘भवेदिति शेषः । रत्यादिरमणीयतायाः सार्वजनीनतयाऽऽत्मगतत्वेन च रत्यादेः प्रतीतेः स्वीकारे तस्यां च तथैव सत्यां न सभ्यानां रमणीयतालाभः, प्रत्युत व्रीडाऽऽतङ्कादिर्भवेत् ; तस्मान्न रत्यादेः प्रतीतिः खात्मनिष्ठेत्यभ्युपेतव्या, परगततया पुना रत्यादेः प्रतीतो सत्यां तथा वा तस्याः वीकारे सर्वथा रत्यादेरास्वादविलयः, प्रत्युत वैमुख्यमापद्येत, तदित्यवश्यं साधारण्यं स्वीकार्यम् । अनेन च परगतत्वात्मगतत्वयोर्निरासः सम्पाद्यते, अत एव निरवरोधो रत्यादे रमणीयताप्रत्ययः सम्पद्यत इति भावः । ननु यावन्न भवेत् साधारण्यं तावदेव नीरसत्वमङ्गीक्रियतामित्याशङ्कामपनेतुं प्रतिजानीते-विभावादयोऽपी त्यादिना। विभाषादयो विभावानुभावव्यभिचारिणः । अपि न केवलं रत्यादय' इति शेषः । प्रथमतः पूर्वत आरम्भादिति यावत् । रसानुभवमारभ्येति भावः । साधारण्येन सम्बन्धविशेषस्वीकाररूपस्य प्रतिबन्धस्य परिहारहेतुभूतेन व्यापारेण । सहाथै तृतीयेयम् । प्रतीयन्ते । इत्यभिप्रायगर्भितमिति भावः । आह-४५ परस्येत्यादि । ४५ तदाऽऽस्वादे तस्य रसस्यास्वादस्तस्मिन् 'भाविनी'ति शेषः । सतिसप्तमीयम् । परस्यान्यस्य नायकस्य दुष्यन्तादेरिति यावत् । 'एव शकुन्तलाऽऽदि'रिति शेषः । दुष्यन्तादेरेव शकुन्तलाऽऽदिरित्याकारक इत्यर्थः । परस्यान्यस्य नायकस्य दुष्यन्तादेरिति यावत् । न 'एव शकुन्तलादि'रिति शेषः। परस्य शकुन्तलाऽऽदिनैवेत्याकारक इति भावः । मम मत्पदवाच्यस्य सभ्यस्येत्यर्थः । एव शकुन्तलाऽऽदि'रिति शेषः । इति इत्याकारक इत्यर्थः । ममान 'एव शकुन्तलाऽऽदि'रिति शेषः । इति इत्याकारक इति भावः । च (इदं समुच्चयार्थमव्ययम्) । विभावादेर्विभावानुभावव्यभिचारिणाम् । परिच्छेदो विभागः सम्बन्धविशेषस्वीकारपरिहाराध्यवसाय इति यावत् । न । विद्यते । विभावादिपरिच्छेदा
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy