SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २७२ વિન્યાલોક इत्यस्य, स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते । महद्भिरपि मातङ्गैः सिंहः 'किमभिभूयते ।। इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्रयेण नवत्वम् । विवक्षितान्यपरवाच्यस्यापि उक्तप्रकारसमाश्रयेण नवत्वं यथा निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधूर्बोधत्रासनिरुद्धचुम्बनरसाऽप्याभोगलोलं स्थिता । वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः साकांक्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ।। इत्यादेः श्लोकस्य शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली . लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।। इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् । यथा वा 'तरङ्गभ्रूभङ्गा' इत्यादिश्लोकस्य ‘नानाभङ्गिभ्रमद्भूः' इत्यादिश्लोकापेक्षयाऽन्यत्वम् ॥२॥ "युक्त्यानयानुसतव्यो रसादिर्बहुविस्तरः । मितोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् ॥३॥ बहुविस्तारोऽयं रसभावतदाभासतत्प्रशमलक्षणो मार्गो यथास्वं विभावानुभावप्रभेदकलनया, यथोक्तं प्राक् । स सर्व एवानयायुक्त्यानुसर्तव्यः । यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्रसंख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मितोऽप्यनन्ततामेति । रसभावादीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् । तेषां चैकैकप्रभेदापेक्षयापि तावज्जगवृत्तमुपनिबध्यमानं सुकविभिस्तदिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते । प्रतिपादितं चैतच्चित्रविचारावसरे । १. केनाभिभूयते' नि०, दी०। । २. तत्रालक्ष्यक्रमप्रकारसमाश्रयेणान्यथात्वम्' P... भi यथा नी पडेi Azed 46 qधु छे. ३. 'इत्यस्य' नि०, दी०। ४. 'दिशा' नि०, दी०। ५. रसादिबहुविस्तरः' निः । ६. 'मिथो' बा० प्रि०। ७. 'मिथोऽप्यनन्ततामेति' बा० प्रि०।
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy