SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ૧૮૪ (अन्यत्र व्रज बालक स्नान्ती किं मां प्रलोकयस्येतत् । भो जायाभीरुकाणां तटमेव न भवति ॥ - इति च्छाया) कृत - 'क'- प्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव | अवज्ञातिशये 'कः'' । समासानां च वृत्त्यौचित्येन विनियोजने । निपातानां व्यञ्जकत्वं यथा अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ।। इत्यत्र 'च' शब्दः । यथा वा मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ अत्र तु शब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा १६.३ नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः, प्रस्निग्धाः क्वचिदिद्भुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपरामादभिन्नगतयः शब्दं सहन्ते मृगाः, तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ इत्यादौ । द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यनुगुणतयैव निर्दोषः । यथा ધ્વન્યાલોક “प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन् द्राग् जन्तून्” इत्यादौ । यथा वा "मनुष्यवृत्त्या समुपाचरन्तम् ।” इत्यादौ । ३ निपातानामपि तथैव । यथा 'अहो बतासि स्पृहणीयवीर्यः । ' इत्यादौ । १. ' अन्यत्र व्रज बालक तृष्णायमानः कथमालोकयस्येतत् । भो जायाभीरुकाणां युष्माकं सम्बन्ध एव न भवति ॥ - दी० २. 'अवज्ञातिशये कः' या पाठ नि.ही. भां नथी. ३. नि० भां यः स्वप्ने सदपानतस्य इत्यादौ च ।' मेटल वधारे छे.
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy