SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १६४ .. ----वन्यास - तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात् कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः स झटिति प्रतीयते । परिकरश्लोकश्चात्र- -- अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः। यस्त्वशक्तिकृतस्तस्य' स झटित्यवभासते । ' तथाहि- महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसम्भोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वाद् ग्राम्यत्वेन न प्रतिभासतें । यथा कुमारसम्भवे देवीसम्भोगवर्णनम् । एवमादौ च विषये यथौचित्यात्यागस्तथा दर्शितमेवाग्रे। शक्तितिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथाहि शक्तिरहितेन कविना एवंविधे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतिभासते । नन्वस्मिन् पक्षे 'यो यः शस्त्रं बिभर्ति' इत्यादौ किमचारुत्वम् ? अप्रतीयमानमेवारोपयामः । तस्माद् गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिनियमहेतुर्वक्तव्यः । इत्युच्यते तनियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥६ब॥ तत्र वक्ता कविः, कविनिबद्धो वा । कविनिबद्धश्चापि रसभावरहितो रसभावसमन्वितो वा । रसोऽपि कथानायकाश्रयस्तद् विपक्षाक्षयो वा । कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः । वाच्यं च ध्वन्यात्मरसाङ्गं रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् । तत्र यदा कविरपगतरसभावो वक्ता तदा रचनाया: कामचारः । यदा हि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव । यदा तु कवि: कविनिबद्धो वा वक्ता रसभावसमन्वितो, रसश्च प्रधानाश्रितत्वा ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासमध्यसमासे एव सङ्घटने । करुणविप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना । १. 'यस्त्वशक्तिकृतस्तस्य' नि० । २. 'शक्तितिरस्कृतं' नि०। ३. 'यथौचित्यत्यागः' नि० । ૪. નિ. માં આ કારિકભાગને વૃત્તિ રૂપમાં છાપ્યો છે અને પહેલાં આખી કારિકા એકસાથે લીધી છે. ५... ह. भकश्चित्' माथि छे. ६. 'प्रधानभूतत्वाद्' नि० दी। ७. 'तदापि' नि० दी।
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy