SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३१ -- - - -वन्यास प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः। अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥२४॥ अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्ये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्यापि द्वौ प्रकारौ, कवेः, कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्नशरीर एकः, स्वतः सम्भवी च द्वितीयः। कविप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा सजेहि सुरहिमासो ण दाव अप्पेइ जुअइजणलक्खमुहे । अहिणवसहआरमुहे णवपल्लवपत्तले अणंगस्स शरे ॥ (सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् । अभिनवसहकारमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ।।इति च्छाया) कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथोदाहृतमेव'-'शिखरिणि' इत्यादि । यथा वा साअरविइण्णजोव्वणहत्थालम्बं समुण्णमन्तेहिं । अन्भुट्ठाणं विअ मम्महस्स दिण्णं तुइ थणेहिं ॥ (सादरवितीर्णयौवनहस्तावलम्बं समुन्नमद्भ्याम् । अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥इति च्छाया) स्वतःसम्भवी य औचित्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरः । यथोदाहृतम्-‘एवंवादिनि' इत्यादि । यथा वा सिहिपिंछकण्णपूरा जाआ वाहस्स गव्विरी भमइ । मुक्ताफलरइअपसाहणाणं मज्झे सबत्तीणं ।। (शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ।।इति च्छाया ॥२४॥) अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते । अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥२५॥ वाच्यालङ्कारव्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थसामर्थ्यात् प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुस्वानरूपव्यङ्ग्योऽन्यो ध्वनिः ॥२५॥ १. उदाहतमेव' ५॥ नि० दी० मा नथी. २. 'इत्यादौ' नि०। ३. यतिथे 'यथा वा' भने तेनी भात Gls२९। नथी भाप्यु.
SR No.023029
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorG S Shah
PublisherParshva Publication
Publication Year1996
Total Pages428
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy